Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 89

1875 Mantra
Devata- अग्निः Rishi- गोपवन आत्रेयः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣡ग꣢न्म वृत्र꣣ह꣡न्त꣢मं꣣ ज्ये꣡ष्ठ꣢म꣣ग्नि꣡मान꣢꣯वम् । य꣡ स्म꣢ श्रु꣣त꣡र्व꣢न्ना꣣र्क्षे꣢ बृ꣣ह꣡द꣢नीक इ꣣ध्य꣡ते꣢ ॥८९॥

अ꣡ग꣢꣯न्म । वृ꣣त्रह꣡न्त꣢मम् । वृ꣣त्र । ह꣡न्त꣢꣯मम् । ज्ये꣡ष्ठ꣢꣯म् । अ꣣ग्नि꣢म् । आ꣡न꣢꣯वम् । यः । स्म꣣ । श्रुत꣡र्व꣢न् । आ꣣र्क्षे꣢ । बृ꣣ह꣡द꣢नीकः । बृ꣣ह꣢त् । अ꣣नीकः । इध्य꣡ते꣢ ॥८९॥

Mantra without Swara
अगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् । य स्म श्रुतर्वन्नार्क्षे बृहदनीक इध्यते ॥

अगन्म । वृत्रहन्तमम् । वृत्र । हन्तमम् । ज्येष्ठम् । अग्निम् । आनवम् । यः । स्म । श्रुतर्वन् । आर्क्षे । बृहदनीकः । बृहत् । अनीकः । इध्यते ॥८९॥

Samveda - Mantra Number : 89
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
वयम् (वृत्रहन्तमम्२) अतिशयेन पापहन्तारम्। पाप्मा वै वृत्रः। श० ११।१।५।७, (ज्येष्ठम्) अतिशयेन प्रशस्यं वृद्धं वा। अतिशायनार्थे इष्ठनि ज्य च अ० ५।३।६१, वृद्धस्य च अ० ५।३।६२ इति सूत्राभ्यां क्रमेण प्रशस्यस्य वृद्धस्य च ज्यादेशः। (आनवम्३) अनुभ्यो मनुष्येभ्यो हितस्तम्। अनुरिति मनुष्यनाम। निघं० २।३। (अग्निम्) तेजस्विनं परमेश्वरम् (अगन्म) प्राप्ताः स्मः। (यः स्म) यः खलु (श्रुतर्वन्४) श्रुताः ख्याता अर्वाणः किरणरूपा अश्वा यस्य स श्रुतर्वा, तस्मिन् श्रुतर्वणि ज्योतिर्मये सूर्ये, श्रुतर्वन्, इत्यत्र सुपां सुलुक् अ० ७।१।३९ इति सप्तम्या लुक्। श्रुत-अर्वन् अत्र च शकन्ध्वादिषु पररूपं वाच्यम् अ० ६।१।९४ वा० इति पररूपम्। तथा (आर्क्षे५) ऋक्षाणि नक्षत्राणि, तेषां समूह आर्क्षम्, तस्मिन् तारकपुञ्जे। ऋषन्ति गच्छन्त्याकाशे तानि ऋक्षाणि नक्षत्राणि। ऋष धातोः स्नुव्रश्चिकृत्यृषिभ्यः कित् उ० ३।६६ इति स प्रत्ययः। तेषां समूहः आर्क्षम्। (बृहदनीकः५) महातेजाः सन् (इध्यते) दीप्यते, भासते। तथा चोपनिषद्वर्णः “न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति” कठ० ५।१५ इति।
Essence
प्रचण्डदीप्तिमति सूर्ये, तारामण्डले, सर्वस्मिन्नेव ब्रह्माण्डे यस्य कर्तृत्त्वं, यत्प्रदत्ता शक्तिः, यत्कृतं च तेजो द्योतते, यः पापानां हन्ता, मनुष्याणां हितकर्ता, प्रशस्यतमः पुराणपुरुषो वर्वर्ति स सर्वैर्नमसा वन्दनीयः प्राप्तव्य उपासनीयश्च ॥९॥ अत्र श्रुतर्वा नाम राजा, स च ऋक्षस्य पुत्रः, तस्मिन् आर्क्षे श्रुतर्वणि अग्निः इध्यते स्म, इति केषाञ्चिद् व्याख्यानं तु न समञ्जसम्, वेदेषु लौकिकेतिहासाभावात्।
Subject
अथ परमात्मगुणानाह।
Footnote
१. ऋ० ८।७४।४, यस्य श्रुतर्वा बृहन्नार्क्षो अनीक एधते इत्युत्तरार्द्धपाठः। २. वृत्रहन्तमं शत्रूणां हन्तारम्—इति वि०। अतिशयेन तमोहन्तारम्— इति भ०। पापानामतिशयेन हन्तारम्—इति सा०। ३. अनुर्मनुष्यः तस्यापत्यम्। मनुष्येण हि मन्थनेन अग्निर्जन्यते—इति वि०। अनवो मनुष्याः तेभ्यः हितम्—इति भ०। मनुष्यसम्बन्धिनम्, तेषां हितकारिणम्—इति सा०। ४. श्रुतर्वन्निति विवरकारेण आमन्त्रितान्तं स्वीकृतम्, तच्चिन्त्यं स्वरविरोधात्। श्रुतर्वा नाम ऋषि—इति वि०। श्रुतर्वणि राज्ञि—इति भ०। श्रुतर्वनाम्नि राजनि—इति सा०। ५. आर्क्ष्यः ऋक्षस्य पुत्रः इति वि०। आर्क्ष्ये ऋक्षपुत्रे—इति भ०। ऋक्षपुत्रे—इति सा०। सर्वैः आर्क्ष्ये इति पाठं मत्वा व्याख्यातम्। ६. बृहदनीकः बृहत्तेजाः—इति भ०।