Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 889

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢मानो अजीजनद्दि꣣व꣢श्चि꣣त्रं꣡ न त꣢꣯न्य꣣तु꣢म् । ज्यो꣡ति꣢र्वैश्वान꣣रं꣢ बृ꣣ह꣢त् ॥८८९॥

प꣡व꣢꣯मानः । अ꣢जीजनत् । दिवः꣢ । चि꣣त्र꣢म् । न । त꣣न्य꣢तुम् । ज्यो꣡तिः꣢꣯ । वै꣣श्वानर꣢म् । वै꣣श्व । नर꣢म् । बृ꣡ह꣢त् ॥८८९॥

Mantra without Swara
पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् । ज्योतिर्वैश्वानरं बृहत् ॥

पवमानः । अजीजनत् । दिवः । चित्रम् । न । तन्यतुम् । ज्योतिः । वैश्वानरम् । वैश्व । नरम् । बृहत् ॥८८९॥

Samveda - Mantra Number : 889
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पवमानः) चरित्रस्य शोधकः परमात्माऽऽचार्यो वा (दिवः) आकाशस्य (चित्रम्) अद्भुतम् (तन्यतुम् न) विद्युतमिव (वैश्वानरम्) सर्वनेतृत्वकारि सर्वहितकरं वा (बृहत्) महत् (ज्योतिः) विज्ञानप्रकाशम्, ज्योतिष्मतीं प्रज्ञां वा (अजीजनत्) उत्पादितवानस्ति ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
परमात्मनो योगप्रशिक्षकस्याचार्यस्य च कृपया जनानामन्तःकरणेषु तमोवृत्तेरुच्छेदो दिव्यस्य ज्योतिषो विज्ञानप्रकाशस्य ज्योतिष्मत्याः प्रज्ञायाश्चोदयः सञ्जायते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४८४ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र परमात्माचार्ययोरुभयोर्विषयो वर्ण्यते।
Footnote
२. ऋ० ९।६१।१६, साम० ४८४।