Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 888

1875 Mantra
Devata- पवमानः सोमः Rishi- अकृष्टा माषाः Chhand- जगती Swara- निषादः
Mantra with Swara
वि꣢श्वा꣣ धा꣡मा꣢नि विश्वचक्ष꣣ ऋ꣡भ्व꣢सः प्र꣣भो꣡ष्टे꣢ स꣣तः꣡ परि꣢꣯ यन्ति के꣣त꣡वः꣢ । व्या꣣नशी꣡ प꣢वसे सोम꣣ ध꣡र्म꣢णा꣣ प꣢ति꣣र्वि꣡श्व꣢स्य꣣ भु꣡व꣢नस्य राजसि ॥८८८॥

वि꣡श्वा꣢꣯ । धा꣡मा꣢꣯नि । वि꣣श्वचक्षः । विश्व । चक्षः । ऋ꣡भ्व꣢꣯सः । प्र꣣भोः꣢ । प्र꣣ । भोः꣢ । ते꣣ । सतः꣢ । प꣡रि꣢꣯ । य꣣न्ति । केत꣢वः꣢ । व्या꣣नशी꣢ । वि꣣ । आनशी꣢ । प꣣वसे । सोम । ध꣡र्म꣢꣯णा । प꣡तिः꣢꣯ । वि꣡श्व꣢꣯स्य । भु꣡व꣢꣯नस्य । रा꣣जसि ॥८८८॥

Mantra without Swara
विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः । व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि ॥

विश्वा । धामानि । विश्वचक्षः । विश्व । चक्षः । ऋभ्वसः । प्रभोः । प्र । भोः । ते । सतः । परि । यन्ति । केतवः । व्यानशी । वि । आनशी । पवसे । सोम । धर्मणा । पतिः । विश्वस्य । भुवनस्य । राजसि ॥८८८॥

Samveda - Mantra Number : 888
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (विश्वचक्षः) विश्वद्रष्टः परमेश ! (ऋभ्वसः२) ऋभून् आदित्यरश्मीन् अस्यति क्षिपति ग्रहोपग्रहादिषु यः स ऋभ्वाः तस्य, यद्वा ऋभून् मेधाविन उपासकान् असति स्वशरणे आदत्ते यः स ऋभ्वाः तस्य। [आदित्यरश्मयोऽप्यृभव उच्यन्ते। निरु० ११।१६। असु क्षेपणे दिवादिः। ऋभुरिति मेधाविनाम। निघं० ३।१५। अस गतिदीप्त्यादानेषु भ्वादिः।] (प्रभोः सतः) समर्थस्य सतः (ते) तव (केतवः) प्रज्ञाः। [केतुः इति प्रज्ञानाम। निघं० ३।९।] (विश्वा धामानि) सर्वान् लोकान् (परि यन्ति) परिगच्छन्ति, सर्वेषु लोकेषु तव बुद्धिकौशलं दरीदृश्यते इति भावः। हे (सोम) पावक परमात्मन् ! (व्यानशी) सर्वान्तर्यामी। [व्याङ्पूर्वाद् नशतेर्व्याप्तिकर्मणो रूपम्। नशत् इति व्याप्तिकर्मसु पठितम्। निघं० २।१८।] त्वम् (धर्मणा) स्वकीयेन गुणकर्मस्वभावेन (पवसे) सर्वान् पुनासि। (विश्वस्य) सकलस्य (भूमनः) ब्रह्माण्डस्य (पतिः) अधीश्वरः त्वम् (राजसि) अतितरां शोभसे ॥३॥ श्लेषेण मन्त्रोऽयं सूर्यपक्षेऽपि योजनीयः ॥३॥
Essence
यथा सूर्यस्य किरणाः सर्वेषु ग्रहोपग्रादिषु दृश्यन्ते तथैव परमेश्वरस्य प्रज्ञाकौशलानि सर्वत्र विलोक्यन्ते। यथा सूर्यः सर्वान् पुनाति तथैव परमेश्वरोऽपि। यथा सूर्यः सौरलोकस्य पतिस्तथा परमेश्वरः सकलब्रह्माण्डस्य ॥३॥
Subject
अथ परमेश्वरो वर्ण्यते।
Footnote
१. ऋ० ९।८६।५, द्वितीयपादे ‘प्र॒भोस्ते॑’ इति पाठः। ‘व्या॒न॒शिः प॑वसे सोम॒ धर्म॑भिः॒’ इति तृतीय पादः। २. ऋभ्वाः इति महन्नाम—इति सा०। ऋभ्वसः प्रभुत्वस्य—इति वि०। ऋभ्वसम् ऋभून् मनुष्यादीन् पदार्थान् वाऽस्यन्ति येन तम्’ इति ऋ० १।५६।१ भाष्ये, ऋभुं मेधाविनमसते गृह्णाति तम्’ इति च ऋ० ५।५२।८ भाष्ये द०।