Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 887

1875 Mantra
Devata- पवमानः सोमः Rishi- अकृष्टा माषाः Chhand- जगती Swara- निषादः
Mantra with Swara
उ꣣भय꣢तः꣣ प꣡व꣢मानस्य र꣣श्म꣡यो꣢ ध्रु꣣व꣡स्य꣢ स꣣तः꣡ परि꣢꣯ यन्ति के꣣त꣡वः꣢ । य꣡दी꣢ प꣣वि꣢त्रे꣣ अ꣡धि꣢ मृ꣣ज्य꣢ते꣣ ह꣡रिः꣢ स꣢त्ता꣣ नि꣡ योनौ꣢꣯ क꣣ल꣡शे꣢षु सीदति ॥८८७॥

उ꣣भय꣡तः꣢ । प꣡व꣢꣯मानस्य । र꣣श्म꣡यः꣢ । ध्रु꣣व꣡स्य꣢ । स꣣तः꣢ । प꣡रि꣢꣯ । य꣣न्ति । केत꣡वः꣢ । य꣡दि꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣡धि꣢꣯ । मृ꣣ज्य꣡ते꣢ । ह꣡रिः꣢꣯ । स꣡त्ता꣢꣯ । नि । यो꣡नौ꣢꣯ । क꣣ल꣡शे꣢षु । सी꣣दति ॥८८७॥

Mantra without Swara
उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः । यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योनौ कलशेषु सीदति ॥

उभयतः । पवमानस्य । रश्मयः । ध्रुवस्य । सतः । परि । यन्ति । केतवः । यदि । पवित्रे । अधि । मृज्यते । हरिः । सत्ता । नि । योनौ । कलशेषु । सीदति ॥८८७॥

Samveda - Mantra Number : 887
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सूर्यपक्षे। (ध्रुवस्य सतः) दिवि स्थिररूपेण विद्यमानस्य (पवमानस्य) शोधकस्य सूर्यस्य (केतवः) प्रकाशकाः (रश्मयः) किरणाः (उभयतः) भूगोलस्य उभयोः गोलार्धयोः (परि यन्ति) परिगच्छन्ति। (यदा) यदा (हरिः) रसानां हर्ता किरणसमूहः (पवित्रे अधि) अन्तरिक्षे। [अन्तरिक्षं वै पवित्रम्। काठ सं० २६।१०।] (मृज्यते) प्रेष्यते। [मार्ष्टिः गतिकर्मा। निघं० २।१४।] तदा (योनौ सत्ता) अन्तरिक्षे स्थितः सः। [योनिरन्तरिक्षम् इति निरुक्तम् २।८।] (कलशेषु) मङ्गलबुधचन्द्रादिषु ग्रहोपग्रहेषु (निषीदति) निगच्छति, गत्वा च तान् प्रकाशितान् करोति। [षदलृ विशरणगत्यवसादनेषु, भ्वादिः] ॥ द्वितीयः—परमात्मपक्षे। (ध्रुवस्य सतः) स्थिरस्य अजरामरस्य सनातनस्य सतः (पवमानस्य) पवित्रताकरस्य परमात्मनः (केतवः) प्रज्ञापकाः (रश्मयः) दिव्यप्रकाशकिरणाः (उभयतः) उभयोः कालयोः प्रातः सायं च सन्ध्यावन्दनसमये (परि यन्ति) उपासकं परि प्राप्नुवन्ति। (यदि) यदा (हरिः) दोषापहारकः परमात्मा (पवित्रे अधि) पवित्रहृदयाभ्यन्तरे (मृज्यते) भक्तिभावरूपैरलङ्कारैरलङ्क्रियते तदा (योनौ सत्ता) हृदयगृहे स्थितः सः। [योनिरिति गृहनाम निघं० ३।४।] (कलशेषु) अन्नमयप्राणमयमनोमयादिकोशेषु (निषीदति) निषदनं करोति, तत्र निषण्णश्च आत्ममनोबुद्ध्यादीनि सर्वाणि प्रभावयति ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
Essence
यथा सोमरसो दशापवित्रमार्गेण द्रोणकलशेषु तिष्ठति, यथा वा सूर्यरश्मिरन्तरिक्षमार्गेण ग्रहोपग्रहेषु निषीदति तथैव परमेश्वरो हृदयमार्गेण देहस्थपञ्चकोशेषु तिष्ठति ॥२॥
Subject
अथ परमात्मनस्तद्रचितस्य सूर्यस्य च विषयमाह।
Footnote
१. ऋ० ९।८६।६, ‘योनौ’ इत्यत्र ‘योना॑’ इति पाठः।