Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 886

1875 Mantra
Devata- पवमानः सोमः Rishi- अकृष्टा माषाः Chhand- जगती Swara- निषादः
Mantra with Swara
प्र꣢ त꣣ आ꣡श्वि꣢नीः पवमान धे꣣न꣡वो꣢ दि꣣व्या꣡ अ꣢सृग्र꣣न्प꣡य꣢सा꣣ ध꣡री꣢मणि । प्रा꣡न्तरि꣢꣯क्षा꣣त्स्था꣡वि꣢रीस्ते असृक्षत꣣ ये꣡ त्वा꣢ मृ꣣ज꣡न्त्यृ꣢षिषाण वे꣣ध꣡सः꣢ ॥८८६॥

प्र꣢ । ते꣣ । आ꣡श्वि꣢꣯नीः । प꣣वमान । धेन꣡वः꣢ । दि꣣व्याः꣢ । अ꣣सृग्रन् । प꣡य꣢꣯सा । धरी꣡म꣢꣯णि । प्र । अ꣣न्त꣡रि꣢क्षात् । स्था꣡वि꣢꣯रीः । स्था । वि꣣रीः । ते । असृक्षत । ये꣢ । त्वा꣣ । मृज꣡न्ति꣢ । ऋ꣣षिषाण । ऋषि । सान । वेध꣡सः꣢ ॥८८६॥

Mantra without Swara
प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि । प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ॥

प्र । ते । आश्विनीः । पवमान । धेनवः । दिव्याः । असृग्रन् । पयसा । धरीमणि । प्र । अन्तरिक्षात् । स्थाविरीः । स्था । विरीः । ते । असृक्षत । ये । त्वा । मृजन्ति । ऋषिषाण । ऋषि । सान । वेधसः ॥८८६॥

Samveda - Mantra Number : 886
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पवमान) पवित्रकर्तः परमात्मन् ! (ते) तव (आश्विनीः२) व्याप्ताः, (दिव्याः) दिवि आकाशे भवाः (धेनवः) प्रीणयित्र्यो मेघरूपाः गावः (पयसा) वृष्टिजलरूपेण दुग्धेन (धरीमणि३) धरण्याम् (प्र असृग्रन्) प्र गच्छन्ति। तथैव, हे (ऋषिषाण) ऋषिभिः संभजनीय परमेश ! [ऋषिभिः सन्यते सेव्यते इति ऋषिषाणः, षण सम्भक्तौ।] ये (वेधसः) स्तुतीनां विधातारः तवोपासकाः (त्वा) त्वाम् (मृजन्ति) स्तुतिभिः अलङ्कुर्वन्ति। [मृजू शौचालङ्कारयोः चुरादिः, विकरणव्यत्ययः।] (ते) उपासकाः (अन्तरिक्षात्) हृदयाकाशात् (स्थाविरीः४) समृद्धाः भक्तिधाराः (प्र असृक्षत) त्वां प्रति प्रकर्षेण विसृजन्ति ॥१॥
Essence
यथा जगदीश्वरो वृष्टिधारा अस्मान् प्रति विसृजति तथैवास्माभिस्तं प्रति भक्तिधारा विस्रष्टव्याः ॥१॥
Subject
तत्रादौ परमेश्वरस्य तदुपासकस्य च विषयो वर्ण्यते।
Footnote
१. ऋ० ९।८६।४, प्रथमे पादे ‘धेनवो’ इत्यत्र ‘धी॒जुवो॑’ इति पाठः। ‘प्रान्तर्ऋष॑यः॒ स्थावि॑रीरसृक्षत॒’ इति च तृतीयः पादः। २. आश्विनीः व्याप्ताः, अशू व्याप्तौ, तस्मादौणादिको विनिः, ततोऽण्, व्यत्ययेनाद्युदात्तः—इति सा०। ३. धृञ् धारणे धातोः ‘हृभृधृसृस्तृशृभ्य ईमनिन्’ उ० ४।१४९ इति ईमनिन् प्रत्ययः। सूत्रे क्वचित्तु ‘इमनिच्’ इत्यपि पाठो दृश्यते। ४. स्थाविरीः स्थविराः धाराः—इति सा०। स्थिराः स्थूला वा स्थविरीर्वा गावः रश्मयः—इति वि०।