Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 885

1875 Mantra
Devata- इन्द्रः Rishi- तिरश्चीराङ्गिरसः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
त꣡मु꣢ ष्टवाम꣣ यं꣢꣫ गिर꣣ इ꣡न्द्र꣢मु꣣क्था꣡नि꣢ वावृ꣣धुः꣢ । पु꣣रू꣡ण्य꣢स्य꣣ पौꣳस्या꣣ सि꣡षा꣢सन्तो वनामहे ॥८८५॥

तम् । उ꣣ । स्तवाम । य꣢म् । गि꣡रः꣢꣯ । इ꣡न्द्र꣢꣯म् । उ꣣क्था꣡नि꣢ । वा꣣वृधुः꣢ । पु꣣रू꣡णि꣢ । अ꣣स्य । पौ꣡ꣳस्या꣢꣯ । सि꣡षा꣢꣯सन्तः । व꣣नामहे ॥८८५॥

Mantra without Swara
तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः । पुरूण्यस्य पौꣳस्या सिषासन्तो वनामहे ॥

तम् । उ । स्तवाम । यम् । गिरः । इन्द्रम् । उक्थानि । वावृधुः । पुरूणि । अस्य । पौꣳस्या । सिषासन्तः । वनामहे ॥८८५॥

Samveda - Mantra Number : 885
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(तम् उ) तमेव (इन्द्रम्) परमात्मानमाचार्यं राजानं वा वयम् (स्तवाम) स्तुयाम, प्रशंसेम। [स्तवतेर्लेटि उत्तमबहुवचनम्।] (यम्) परमात्मानमाचार्यं राजानं वा (गिरः) वेदवाचः (उक्थ्यानि) उक्थानि स्तोत्राणि, स्वागतवचांसि, अभिनन्दनवचांसि वा। [वचेस्थकि उक्थम्, ततः स्वार्थे यत्।] (वावृधुः) कीर्तिगानेन वर्धयन्ति। वयम् (अस्य) परमात्मनः आचार्यस्य राज्ञो वा (पुरूणि) बहूनि (पौंस्या) पौंस्यानि बलधनविद्यासद्गुणादीनि। [पुंसि भवं पौंस्यम्।] (सिषासन्तः) अन्येभ्यः संभक्तुमिच्छन्तः। [षण सम्भक्तौ, सनि रूपम्।] (वनामहे) याचामहे। [वनु याचने तनादिः, विकरणव्यत्ययः] ॥३॥
Essence
परमात्मन आचार्यान्नृपतेर्वा यद् धनबलविद्यादिकं प्राप्यते तन्न स्वयमेवोपभोक्तव्यं किन्त्वन्येभ्योऽपि देयम्, यतो न केनापि केवलमात्मोन्नत्या सन्तोष्टव्यं, प्रत्युत सर्वेषामुन्नतौ स्वोन्नतिः संभावनीया ॥३॥ अस्मिन् खण्डेऽध्ययनाध्यापनज्ञानरसब्रह्मानन्दरस-परमेश्वराचार्यनृपत्यादीनां विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपाल-रामभगवतीदेवीतनयेनहरिद्वारीयगुरुकुलकाङ्गड़ी-विश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द- सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके द्वितीयः प्रपाठकः समाप्तिमगात् ॥
Subject
अथ पुनरपि परमात्माचार्यनृपतिविषयमाह।
Footnote
१. ऋ० ८।९५।६।