Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 884

1875 Mantra
Devata- इन्द्रः Rishi- तिरश्चीराङ्गिरसः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
य꣡स्त꣢ इन्द्र꣣ न꣡वी꣢यसीं꣣ गि꣡रं꣢ म꣣न्द्रा꣡मजी꣢꣯जनत् । चि꣣कित्वि꣡न्म꣢नसं꣣ धि꣡यं꣢ प्र꣣त्ना꣢मृ꣣त꣡स्य꣢ पि꣣प्यु꣡षी꣢म् ॥८८४॥

यः꣢ । ते꣡ । इन्द्र । न꣡वी꣢꣯यसीम् । गि꣡र꣢꣯म् । म꣣न्द्रा꣢म् । अ꣡जी꣢꣯जनत् । चि꣣कित्वि꣡न्म꣢नसम् । चि꣣कित्वि꣢त् । म꣣नसम् । धि꣡य꣢꣯म् । प्र꣣त्ना꣢म् । ऋ꣣त꣡स्य꣢ । पि꣣प्यु꣢षी꣢म् ॥८८४॥

Mantra without Swara
यस्त इन्द्र नवीयसीं गिरं मन्द्रामजीजनत् । चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम् ॥

यः । ते । इन्द्र । नवीयसीम् । गिरम् । मन्द्राम् । अजीजनत् । चिकित्विन्मनसम् । चिकित्वित् । मनसम् । धियम् । प्रत्नाम् । ऋतस्य । पिप्युषीम् ॥८८४॥

Samveda - Mantra Number : 884
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमात्मन्, आचार्य राजन् वा ! (यः) उपासकः, शिष्यः, प्रजाजनो वा (ते) तुभ्यम् (नवीयसीम्२) अतिशयेन नूतनाम्, (मन्द्राम्) आनन्दकरीम् (गिरम्) प्रार्थनावाचम् (अजीजनत्) उत्पादितवानस्ति, किञ्च (चिकित्विन्मनसम्३) चिकित्वित् जागरूकं मनः यया तादृशीम् (प्रत्नाम्४) श्रेष्ठाम्, (ऋतस्य पिप्युषीम्५) सत्यस्य वर्धयित्रीम्। [ओप्यायी वृद्धौ, लिटः क्वसुः, स्त्रियां ङीप्।] (धियम्) ध्यानधारां बुद्धिं वा (अजीजनत्) त्वां प्रति प्रेरितवान् अस्ति, तदर्थम् (रायः) सद्गुणसद्धनसद्विद्यासद्वृत्तादिकस्य ऐश्वर्यस्य (पूर्धि) पूर्तिं कुरु। [अत्र ‘रायः पूर्धि’ इति वाक्यपूर्त्यर्थं पूर्वमन्त्रादाकृष्यते] ॥२॥
Essence
यो निश्छलेन मनसा समर्पणभावनया हृदयस्पर्शिशब्दैश्च परमात्मानमाचार्यं राजानं वा याचते तस्य सद्गुणसद्धर्म- सद्धनसद्विद्यादिवृद्धिं ते सदा कुर्वन्ति ॥२॥
Subject
अथ परमात्माचार्यनृपतयः सम्बोध्यन्ते।
Footnote
१. ऋ० ८।९५।५ ‘इन्द्र॒ यस्ते॒ नवी॑यसी॒’ इति पाठः। २. नवीयसीं मृदुपदवर्णस्वरोदाहरणयुक्ताम्—इति वि०। ३. कित ज्ञाने, क्वसौ रूपम्, अकारस्येकारश्छान्दसः। चिकित्वांसि ज्ञातानि सर्वेषां हृदयानि यया—इति सा०। ४. प्रत्नाम् ऋग्यजुःसामलक्षणाम्—इति वि०। ५. ऋतो यज्ञः अथवा ऋतो मन्त्रः अथवा ऋतः प्रजापतिः अथवा ऋतं सत्यं परं ब्रह्म तस्य पिप्युषीं पोषणसमर्थाम्—इति वि०।