Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 883

1875 Mantra
Devata- इन्द्रः Rishi- तिरश्चीराङ्गिरसः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
श्रु꣣धी꣡ हवं꣢꣯ तिर꣣श्च्या꣢꣫ इन्द्र꣣ य꣡स्त्वा꣢ सप꣣र्य꣡ति꣣ । सु꣣वी꣡र्य꣢स्य꣣ गो꣡म꣢तो रा꣣य꣡स्पू꣢र्धि म꣣हा꣡ꣳ अ꣢सि ॥८८३॥

श्रु꣣धी꣢ । ह꣡व꣢꣯म् । ति꣣रश्च्याः꣢ । ति꣣रः । च्याः꣢ । इ꣡न्द्र꣣ । यः । त्वा꣣ । सपर्य꣡ति꣢ । सु꣣वी꣡र्य꣢स्य । सु꣣ । वी꣡र्य꣢꣯स्य । गो꣡म꣢꣯तः । रा꣣यः꣢ । पू꣡र्धि । महा꣢न् । अ꣣सि ॥८८३॥

Mantra without Swara
श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति । सुवीर्यस्य गोमतो रायस्पूर्धि महाꣳ असि ॥

श्रुधी । हवम् । तिरश्च्याः । तिरः । च्याः । इन्द्र । यः । त्वा । सपर्यति । सुवीर्यस्य । सु । वीर्यस्य । गोमतः । रायः । पूर्धि । महान् । असि ॥८८३॥

Samveda - Mantra Number : 883
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) दोषापहारक परमात्मन्, आचार्य, राजन् वा ! (यः) जनः (त्वा) त्वाम् (सपर्यति) सत्करोतिः तस्य (तिरश्च्याः) तिरः अञ्चनशीलस्य, पुरुषार्थिनः (हवम्) आह्वानम् (श्रुधि) शृणु। (सुवीर्यस्य) सुबलोपेतस्य, (गोमतः) प्रशस्तधेनुवागादियुक्तस्य, (रायः) विद्याधनधान्यादिरूपस्य ऐश्वर्यस्य (पूर्धि) पूर्ति कुरु। त्वम् (महान्) महिमवान् (असि) विद्यसे ॥१॥
Essence
यथा जगदीश्वरः स्वपूजकान् पुरुषार्थिनो जनान् सर्वैरैश्वर्यैः प्रपूरयति तथैव नृपतिः प्रजाभिः पुरुषार्थं कारयित्वा ताः समग्रेण धनधान्यादिना प्रपूरयेत्, आचार्यश्च पुरुषार्थिनः शिष्यान् अपरापराविद्यारोग्यसदा- चारादिभिः परिपूर्णान् कुर्यात् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३४६ क्रमाङ्के परमात्मप्रार्थनाविषये व्याख्याता। अत्र परमात्माऽचार्यो नृपतिश्च त्रयोऽपि सम्बोध्यन्ते।
Footnote
१. ऋ० ८।९५।४, साम० ३४६।