Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 882

1875 Mantra
Devata- इन्द्रः Rishi- गोषूक्त्यश्वसूक्तिनौ काण्वायनौ Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
त꣢द꣢द्या꣡ चि꣢त्त उ꣣क्थि꣡नोऽनु꣢꣯ ष्टुवन्ति पू꣣र्व꣡था꣢ । वृ꣡ष꣢पत्नी꣣रपो꣡ ज꣢या दि꣣वे꣡दि꣢वे ॥८८२॥

त꣢त् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । चि꣣त् । ते । उक्थि꣡नः꣢ । अ꣡नु꣢꣯ । स्तु꣡वन्ति । पूर्व꣡था꣢ । वृ꣡ष꣢꣯पत्नीः । वृ꣡ष꣢꣯ । प꣣त्नीः । अपः꣢ । ज꣢य । दिवे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे ॥८८२॥

Mantra without Swara
तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा । वृषपत्नीरपो जया दिवेदिवे ॥

तत् । अद्य । अ । द्य । चित् । ते । उक्थिनः । अनु । स्तुवन्ति । पूर्वथा । वृषपत्नीः । वृष । पत्नीः । अपः । जय । दिवेदिवे । दिवे । दिवे ॥८८२॥

Samveda - Mantra Number : 882
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र परमात्मन्, आचार्य राजन् वा ! (पूर्वथा) पूर्वस्मिन् काले इव (अद्य) अस्मिन् कालेऽपि (उक्थिनः) स्तोतारो जनाः, शास्त्राध्येतारः शिष्याः, प्रशंसकाः प्रजाजना वा (ते) तव (तत्) आनन्दज्ञानबलधनप्रदानादिकं कर्म (अनु स्तुवन्ति) अनुक्रमेण कीर्तयन्ति। त्वम् (दिवेदिवे) प्रतिदिनम् (वृषपत्नीः) वृषो धर्मः पतिः रक्षको यासां ताः (अपः) कर्माणि (जय) वशे कुरु, अस्मान् प्रापय, यथा सूर्यरूपः इन्द्रः (वृषपत्नीः) वृषो मेघः पतिर्यासां ताः (अपः) उदकानि जयति वशीकरोति, वशीकृत्य च वर्षति ॥३॥ अत्र श्लिष्टा व्यङ्ग्योपमा ॥३॥
Essence
यथा परमेश्वरः सर्वेषां हृदि धर्मप्रेरणां करोति तथैव गुरुभिः शिष्येषु नृपेण च प्रजाजनेषु धर्मप्रेरणा सदैव कार्या ॥३॥
Subject
अथ पुनरपि त एव सम्बोध्यन्ते।
Footnote
१. ऋ० ८।१५।६, अथ० २०।६१।३।