Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 881

1875 Mantra
Devata- इन्द्रः Rishi- गोषूक्त्यश्वसूक्तिनौ काण्वायनौ Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
ये꣢न꣣ ज्यो꣡ती꣢ꣳष्या꣣य꣢वे꣣ म꣡न꣢वे च वि꣣वे꣡दि꣢थ । म꣣न्दानो꣢ अ꣣स्य꣢ ब꣣र्हि꣢षो꣣ वि꣡ रा꣢जसि ॥८८१॥

ये꣡न꣢꣯ । ज्यो꣡ती꣢꣯ꣳषि । आ꣡व꣡ये꣢ । म꣡न꣢꣯वे । च꣣ । विवे꣡दि꣢थ । म꣣न्दानः꣢ । अ꣣स्य꣢ । ब꣡र्हि꣢षः꣢ । वि । रा꣡जसि ॥८८१॥

Mantra without Swara
येन ज्योतीꣳष्यायवे मनवे च विवेदिथ । मन्दानो अस्य बर्हिषो वि राजसि ॥

येन । ज्योतीꣳषि । आवये । मनवे । च । विवेदिथ । मन्दानः । अस्य । बर्हिषः । वि । राजसि ॥८८१॥

Samveda - Mantra Number : 881
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र परमात्मन् आचार्य राजन् वा ! (येन) आनन्देन ज्ञानेन बलेन वा, त्वम् (आयवे) कर्मयोगिने पुरुषार्थिने। [एति कर्मशीलो भवतीत्यायुः ‘छन्दसीणः’। उ० १।२ इत्यनेन इण् गतौ धातोः उः प्रत्ययः।] (मनवे च) मननशीलाय च जनाय। [मन्यते जानाति मनुते अवबुध्यते वा यः स मनुः। ‘शृस्वृ०’। उ० १।१० इत्यनेन मन ज्ञाने, मनु अवबोधने वा धातोः उः प्रत्ययः।] (ज्योतींषि) अन्तःप्रकाशान् बाह्यप्रकाशान् वा (विवेदिथ) लम्भयसि, तेन आनन्देन ज्ञानेन बलेन वा (मन्दानः) मोदमानः त्वम् (अस्य बर्हिषः) अस्मिन् बर्हिषि हृदयासने, दर्भासने, राजासने वा (वि राजसि) विशेषेण शोभसे ॥२॥
Essence
परमेश्वरादाचार्यान्नृपतेश्चानन्दं ज्ञानं बलं च प्राप्य सर्वे सुखिनो विज्ञानवन्तो बलवन्तः पुरुषार्थिनो मननशीलाश्च सन्तो जीवने सफला भवन्तु ॥२॥
Subject
अथ परमेश्वरमाचार्यं नृपतिं च सम्बोधयति।
Footnote
१. ऋ० ८।१५।५, अथ० २०।६१।२।