Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 880

1875 Mantra
Devata- इन्द्रः Rishi- गोषूक्त्यश्वसूक्तिनौ काण्वायनौ Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
तं꣢ ते꣣ म꣡दं꣢ गृणीमसि꣣ वृ꣡ष꣢णं पृ꣣क्षु꣡ सा꣢स꣣हि꣢म् । उ꣣ लोककृत्नु꣡म꣢द्रिवो हरि꣣श्रि꣡य꣢म् ॥८८०॥

त꣢म् । ते꣡ । म꣡द꣢꣯म् । गृ꣣णीमसि । वृ꣡ष꣢꣯णम् । पृ꣣क्षु꣢ । सा꣣सहि꣢म् । उ꣢ । लोककुत्नु꣢म् । लो꣣क । कृत्नु꣢म् । अ꣣द्रिवः । अ । द्रिवः । हरिश्रि꣡य꣢म् । ह꣣रि । श्रि꣡य꣢꣯म् ॥८८०॥

Mantra without Swara
तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् । उ लोककृत्नुमद्रिवो हरिश्रियम् ॥

तम् । ते । मदम् । गृणीमसि । वृषणम् । पृक्षु । सासहिम् । उ । लोककुत्नुम् । लोक । कृत्नुम् । अद्रिवः । अ । द्रिवः । हरिश्रियम् । हरि । श्रियम् ॥८८०॥

Samveda - Mantra Number : 880
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अद्रिवः) अविदारणीय, स्वयं च दोषाणां शत्रूणां वा विदारक परमात्मन् आचार्य राजन् वा ! (ते) तव (तम्) प्रसिद्धम् (मदम्) आनन्दप्रदं ज्ञानं बलं वा, वयम् (गृणीमसि) स्तुमः। कीदृशं ज्ञानं बलं वा ? (वृषणम्) सुखादीनां वर्षकम्, (पृक्षु) देवासुरसंग्रामेषु (सासहिम्) अतिशयेन असुराणाम् अभिभवितारम्, (लोककृत्नुम्) यशःकरम् (उ) अपि च (हरिश्रियम्) मनोहारिशोभम् ॥१॥
Essence
परमात्मन इव आचार्यस्य नृपतेश्चापि ज्ञानं बलं चातिविशालं, प्रजाभ्यः शिष्येभ्यश्च सुखकरं, विपद्विदारकं, कीर्तिकरमुज्ज्वलं च भवेत् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३८३ क्रमाङ्के परमेश्वरगुणकर्मविषये व्याख्याता। अत्र परमेश्वराचार्यनृपतीनां विषयो वर्ण्यते।
Footnote
१. ऋ० ८।१५।४, अथ० २०।६१।१, उभयत्र ‘पृक्षु’ इत्यत्र ‘पृ॒त्सु’ इति पाठः। साम० ३८३।