Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 88

1875 Mantra
Devata- अग्निः Rishi- पूरुरात्रेयः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
बृ꣣हद्व꣢꣫यो꣣ हि꣢ भा꣣न꣡वेऽर्चा꣢꣯ दे꣣वा꣢या꣣ग्न꣡ये꣢ । यं꣢ मि꣣त्रं꣡ न प्रश꣢꣯स्तये꣣ म꣡र्ता꣢सो दधि꣣रे꣢ पु꣣रः꣢ ॥८८॥

बृ꣣ह꣢त् । व꣡यः꣢꣯ । हि । भा꣣न꣡वे꣢ । अ꣡र्च꣢꣯ । दे꣣वा꣡य꣢ । अ꣣ग्न꣡ये꣢ । यम् । मि꣣त्र꣢म् । मि꣣ । त्रं꣢ । न । प्र꣡श꣢꣯स्तये । प्र । श꣣स्तये । म꣡र्ता꣢꣯सः । द꣣धिरे꣢ । पु꣣रः꣢ । ॥८८॥

Mantra without Swara
बृहद्वयो हि भानवेऽर्चा देवायाग्नये । यं मित्रं न प्रशस्तये मर्तासो दधिरे पुरः ॥

बृहत् । वयः । हि । भानवे । अर्च । देवाय । अग्नये । यम् । मित्रम् । मि । त्रं । न । प्रशस्तये । प्र । शस्तये । मर्तासः । दधिरे । पुरः । ॥८८॥

Samveda - Mantra Number : 88
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मानव ! त्वम् (भानवे) आदित्यवद् भासमानाय, (देवाय) दिव्यगुणकर्मयुक्ताय (अग्नये) परमात्मने (बृहत्) दीर्घम् (वयः) आयुः (अर्च२) समर्पय, (यम्) परमात्मानम् (मित्रं न) सखायम् इव (प्रशस्तये) प्रशस्तजीवनाय (मर्तासः) उपासकाः मनुष्याः (पुरः) पुरस्तात् (दधिरे) स्थापयन्ति। छन्दसि लुङ्लङ्लिटः अ० ३।४।६ इति सूत्रेण वेदे वर्तमानाद्यर्थेऽपि लिटः प्रयोगः सम्मतः ॥८॥३ अत्र मित्रं न इत्युपमालङ्कारः ॥८॥
Essence
ये जगन्नेतारः सुज्ञाः सदाचरणप्रिया महान्तो जना भवन्ति ते सदैव परमात्मानं पुरतो निधाय ततः सत्पेरणां च प्राप्य सर्वाणि कार्याणि कुर्वन्ति, तेन तेषां प्रशस्तिः ख्यातिश्च सर्वत्र प्रसरति। तथैव हे नरा नार्यश्च ! युष्माभिरपि स्वकीयं सर्वमायुर्दिव्यगुणकर्मयुक्ताय ज्योतिष्मते परमात्मने समर्प्य तत्प्रेरणया कर्त्तव्येषु कर्मसु मतिं कृत्वा लोके प्रशस्तिः प्राप्तव्या ॥८॥
Subject
अथ परमात्माग्नेरर्चनाय मानवं प्रेरयन्नाह।
Footnote
१. ऋ० ५।१६।१, प्रशस्तये इत्यत्र प्रशस्तिभिर् इति पाठः। २. अर्च प्रयच्छ—इति भ० सा०। बृहत् महत् वयः अन्नम् अर्च पूजय, संस्कुरु इत्यर्थः—इति वि०। बृहत् महत् वयः प्रदीपकं तेजः यथा स्यात् तथा हि अर्च पूजय—इति ऋ० ५।१६।१ भाष्ये द०। ३. ऋग्भाष्ये दयानन्दस्वामिनाऽस्मिन् मन्त्रे विद्युद्विषयः प्रतिपादितः।