Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 879

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
आ꣡ व꣢ꣳसते म꣣घ꣡वा꣢ वी꣣र꣢व꣣द्य꣢शः꣣ स꣡मि꣢द्धो द्यु꣣म्न्या꣡हु꣢तः । कु꣣वि꣡न्नो꣢ अस्य सुम꣣ति꣡र्भवी꣢꣯य꣣स्य꣢च्छा꣣ वा꣡जे꣢भिरा꣣ग꣡म꣢त् ॥८७९॥

आ । व꣣ꣳसते । मघ꣡वा꣢ । वी꣣र꣡व꣢त् । य꣡शः꣢꣯ । स꣡मि꣢꣯द्धः । स꣡म्꣢꣯ । इ꣣द्धः । द्युम्नी꣢ । आ꣡हु꣢꣯तः । आ । हु꣣तः । कुवि꣡त् । नः꣡ । अस्य । सुमतिः꣢ । सु꣣ । मतिः꣢ । भ꣡वी꣢꣯यसी । अ꣡च्छ꣢꣯ । वा꣡जे꣢꣯भिः । आ꣡ग꣢म꣡त् । आ । गमत् ॥८७९॥

Mantra without Swara
आ वꣳसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः । कुविन्नो अस्य सुमतिर्भवीयस्यच्छा वाजेभिरागमत् ॥

आ । वꣳसते । मघवा । वीरवत् । यशः । समिद्धः । सम् । इद्धः । द्युम्नी । आहुतः । आ । हुतः । कुवित् । नः । अस्य । सुमतिः । सु । मतिः । भवीयसी । अच्छ । वाजेभिः । आगमत् । आ । गमत् ॥८७९॥

Samveda - Mantra Number : 879
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मघवा) ऐश्वर्यवान्, (समिद्धः) तेजस्वी, (द्युम्नी) यशस्वी, (आहुतः) आत्मसमर्पणेन राजकरादिप्रदानेन हविष्प्रदानेन वा आहुतः (अग्निः) परमेश्वरः आचार्यः नृपतिः यज्ञाग्निर्वा (वीरवद् यशः) वीरैः पुत्रैः वीर, भावैर्वा युक्तां कीर्तिम् (आ वंसते) उपासकेभ्यः, शिष्येभ्यः, प्रजाजनेभ्यः, यजमानेभ्यो वा प्रयच्छति। [वन संभक्तौ, लेटि रूपम्।] (अस्य) परमेश्वरस्य, आचार्यस्य, नृपतेः यज्ञाग्नेर्वा (भवीयसी) अतिशयेन भवितुं योग्या (सुमतिः) अनुग्रहबुद्धिः आनुकूल्यं वा (नः अच्छ) अस्मान् प्रति (वाजेभिः) अन्नैर्धनैर्बलैर्विज्ञानैश्च सह (कुवित्) बहु। [कुवित् इति बहुनाम। निघं० ३।१।] (आगमत्) आगच्छतु ॥२॥
Essence
परमेश्वरोपासनया, गुरुं प्रति श्रद्धया, राजनियमानां पालनेन, यज्ञाग्नौ हविष्प्रदानेन च जना यथायोग्यं वीरसन्तानवीरभावधनान्नबलविद्यारोग्यकीर्त्यादिप्राप्तिं कर्तुमर्हन्ति ॥२॥
Subject
अथ परमात्माचार्यनृपतियज्ञाग्निविषयमाह।
Footnote
१. ऋ० ८।१०३।९, ‘भवीयस्यच्छा’ इत्यत्र ‘नवी॑य॒स्यच्छा॒’ इति पाठः।