Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 877

1875 Mantra
Devata- पवमानः सोमः Rishi- पवित्र आङ्गिरसः Chhand- जगती Swara- निषादः
Mantra with Swara
अ꣡रू꣢रुचदु꣣ष꣢सः꣣ पृ꣡श्नि꣢र꣣ग्रि꣢य उ꣣क्षा꣡ मि꣢मेति꣣ भु꣡व꣢नेषु वाज꣣युः꣢ । मा꣣यावि꣡नो꣢ ममिरे अस्य मा꣣य꣡या꣢ नृ꣣च꣡क्ष꣢सः पि꣣त꣢रो꣣ ग꣢र्भ꣣मा꣡ द꣢धुः ॥८७७॥

अ꣡रु꣢꣯रुचत् । उ꣣ष꣡सः꣢ । पृ꣡श्निः꣢꣯ । अ꣣ग्रियः꣢ । उ꣣क्षा꣢ । मि꣣मेति । भु꣡व꣢꣯नेषु । वा꣣ज꣢युः । मा꣣यावि꣡नः꣢ । म꣣मिरे । अस्य । माय꣡या꣢ । नृ꣣च꣡क्ष꣢सः । नृ꣣ । च꣡क्ष꣢꣯सः । पि꣣त꣡रः꣢ । ग꣡र्भ꣢꣯म् । आ । द꣣धुः ॥८७७॥

Mantra without Swara
अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः । मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥

अरुरुचत् । उषसः । पृश्निः । अग्रियः । उक्षा । मिमेति । भुवनेषु । वाजयुः । मायाविनः । ममिरे । अस्य । मायया । नृचक्षसः । नृ । चक्षसः । पितरः । गर्भम् । आ । दधुः ॥८७७॥

Samveda - Mantra Number : 877
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
एषः (अग्रियः) अग्रेभवः (पृश्निः) सूर्यरूपः पवमानः सोमः (उषसः) प्रभातकान्तीः (अरूरुचत्) आरोचयति। एषः (उक्षा) वृष्टिजलेन सेचकः सूर्यः (भुवनेषु) भूखण्डेषु (वाजयुः२) परेषाम् अन्नकामः सन् मिमेति मिनोति, मेघोदकम् अधः प्रक्षिपति। [डुमिञ् प्रक्षेपणे, स्वादिः। विकरणव्यत्ययेन शपः श्लुः।] (अस्य) सूर्यस्यैव (मायया) कर्मणा (मायाविनः) कर्मवन्तः वायुजलविद्युदादयः (ममिरे) पदार्थान् निर्मिमते। किञ्च अस्य सूर्यस्यैव मायया (नृचक्षसः) नृणां प्रकाशप्रदाः (पितरः) पालकाः रश्मयः (गर्भम् आदधुः) ओषध्यादिषु गर्भं स्थापयन्ति ॥३॥
Essence
सौरमण्डले उषःप्रादुर्भाव-जलवृष्टि-विद्युत्प्रकाशन-वायुगमन-बीजाङ्कुरणादिकं यत्किञ्चिदपि कर्म विद्यते तत्सर्वं सूर्यकृतमेवेति तन्महत्त्वं विज्ञाय तदुपयोगः सम्यक् शिल्पादिषु कार्यः। सूर्येऽपि सर्वा शक्तिः परमात्मकृतेति सूर्यस्यापि सूर्यः परमात्माऽस्तीत्यपि ज्ञातव्यम् ॥३॥
Subject
तृतीया ऋक् पूर्वार्चिके ५९६ क्रमाङ्के परमात्मसोमविषये व्याख्याता। अत्र सोमः सूर्यात्मना वर्ण्यते।
Footnote
१. ऋ० ९।८३।३ ‘मिमेति भुवनेषु’ इत्यत्र ‘बि॑भर्ति॒ भुव॑नानि’ इतिपाठः। साम० ५९६। २. वाजयुः वाजमन्तं तदिप्सुः, अथवा वाजयुः वाजप्रदः, वाजयुः वेगवान् इति वि०।