Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 876

1875 Mantra
Devata- पवमानः सोमः Rishi- पवित्र आङ्गिरसः Chhand- जगती Swara- निषादः
Mantra with Swara
त꣡पो꣢ष्प꣣वि꣢त्रं꣣ वि꣡त꣢तं दि꣣व꣢स्प꣣दे꣡ऽर्च꣢न्तो अस्य꣣ त꣡न्त꣢वो꣣꣬ व्य꣢꣯स्थिरन् । अ꣡व꣢न्त्यस्य पवि꣣ता꣡र꣢मा꣣श꣡वो꣢ दि꣣वः꣢ पृ꣣ष्ठ꣡मधि꣢꣯ रोहन्ति꣣ ते꣡ज꣢सा ॥८७६॥

त꣡पोः꣢꣯ । प꣣वि꣡त्र꣢म् । वि꣡तत꣢꣯म् । वि । त꣣तम् । दिवः꣢ । प꣣दे꣢ । अ꣡र्च꣢꣯न्तः । अ꣣स्य । त꣡न्त꣢꣯वः । वि । अ꣣स्थिरन् । अ꣡व꣢꣯न्ति । अ꣣स्य । पविता꣡र꣢म् । आ꣣श꣡वः꣢ । दि꣣वः꣢ । पृ꣣ष्ठ꣢म् । अ꣡धि꣢꣯ । रो꣣हन्ति । ते꣡ज꣢꣯सा ॥८७६॥

Mantra without Swara
तपोष्पवित्रं विततं दिवस्पदेऽर्चन्तो अस्य तन्तवो व्यस्थिरन् । अवन्त्यस्य पवितारमाशवो दिवः पृष्ठमधि रोहन्ति तेजसा ॥

तपोः । पवित्रम् । विततम् । वि । ततम् । दिवः । पदे । अर्चन्तः । अस्य । तन्तवः । वि । अस्थिरन् । अवन्ति । अस्य । पवितारम् । आशवः । दिवः । पृष्ठम् । अधि । रोहन्ति । तेजसा ॥८७६॥

Samveda - Mantra Number : 876
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(तपोः) तेजस्विनः सोमस्य परमात्मनः कृतिः (पवित्रम्) पवित्रतासाधनं सूर्यः। [सूर्यः पवित्रमुच्यते। निरु० ५।६।] (दिवः पदे) द्युलोके (विततम्) विस्तीर्णमस्ति। (अस्य) सूर्यस्य (अर्चन्तः) दीप्यमानाः२ (तन्तवः) किरणाः (व्यस्थिरन्) विविधेषु स्थानेषु तिष्ठन्ति। [विपूर्वात् ष्ठा गतिनिवृत्तौ इति धातोः लुङि छान्दसो झस्य रन् आदेशः सिचो लोपश्च।] (अस्य) सूर्यस्य (आशवः) शीघ्रगामिनः किरणाः (पवितारम्) शोधकं वायुम् (अवन्ति) रक्षन्ति, अस्यैव सूर्यस्य (तेजसा) तापेन समुद्रजलानि वाष्पीभूय (दिवः पृष्ठम्) आकाशस्य पृष्ठम् (अधि रोहन्ति) अधिगच्छन्ति, मेघाकारतां च प्रपद्यन्ते ॥२॥
Essence
परमात्मनैव तेजोमयः सूर्यो रचितो यस्य रश्मयः पदार्थशोधनं, समुद्रजलानां वाष्पीकरणं वाष्पतस्योपरि नयनं, मेघनिर्माणमित्यादीनि विविधानि कार्याणि कुर्वन्ति ॥२॥
Subject
अथ परमात्मविरचितस्य सूर्य्यस्य कर्माणि वर्णयति।
Footnote
१. ऋ० ९।८३।२, ‘ऽर्चन्तो’, ‘पवितार’, ‘रोहन्ति तेजसा’ इत्यत्र क्रमेण ‘रोच॑न्तो’, ‘पवी॒ तार॑’, ‘तिष्ठन्ति चेत॑सा’ इति पाठः। २. अर्चन्तः दीप्यमानाः इति सा०। ऋग्वेदे ‘अर्चन्तः’ इत्यत्र ‘शोचन्तः’ इत्येव पाठः।