Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 875

1875 Mantra
Devata- पवमानः सोमः Rishi- पवित्र आङ्गिरसः Chhand- जगती Swara- निषादः
Mantra with Swara
प꣣वि꣡त्रं꣢ ते꣣ वि꣡त꣢तं ब्रह्मणस्पते प्र꣣भु꣡र्गात्रा꣢꣯णि꣣ प꣡र्ये꣢षि वि꣣श्व꣡तः꣢ । अ꣡त꣢प्ततनू꣣र्न꣢꣫ तदा꣣मो꣡ अ꣢श्नुते शृ꣣ता꣢स꣣ इ꣡द्वह꣢꣯न्तः꣣ सं꣡ तदा꣢꣯शत ॥८७५॥

प꣣वि꣡त्र꣢म् । ते꣣ । वि꣡त꣢꣯तम् । वि । त꣣तम् । ब्रह्मणः । पते । प्रभुः꣢ । प्र꣣ । भुः꣢ । गा꣡त्रा꣢꣯णि । प꣡रि꣢꣯ । ए꣣षि । विश्व꣡तः꣢ । अ꣡त꣢꣯प्ततनूः । अ꣡त꣢꣯प्त । त꣣नूः । न꣢ । तत् । आ꣣मः꣢ । अ꣣श्नुते । शृता꣡सः꣢ । इत् । व꣡ह꣢꣯न्तः । सम् । तत् । आ꣡शत ॥८७५॥

Mantra without Swara
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत ॥

पवित्रम् । ते । विततम् । वि । ततम् । ब्रह्मणः । पते । प्रभुः । प्र । भुः । गात्राणि । परि । एषि । विश्वतः । अतप्ततनूः । अतप्त । तनूः । न । तत् । आमः । अश्नुते । शृतासः । इत् । वहन्तः । सम् । तत् । आशत ॥८७५॥

Samveda - Mantra Number : 875
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (ब्रह्मणः पते) ब्रह्माण्डस्य अधिपते परमात्मन्, ज्ञानस्य अधिपते आचार्य वा ! (ते) तव (पवित्रम्) पूतम् आनन्दतत्त्वं ज्ञानतत्त्वं वा (विततम्) त्वयि प्रसृतमस्ति। (प्रभुः) आनन्दप्रदाने ज्ञानप्रदाने वा समर्थः त्वम् (विश्वतः) सर्वतः (गात्राणि) शरीराणि, शरीरधारिण इत्यर्थः (पर्येषि) तद् दातुं परिगच्छसि। किन्तु (अतप्ततनूः) न तप्ता तनूः येन सः तपश्चर्यारहितः (आमः) अपरिपक्वो जनः (तत्) आनन्दतत्त्वं ज्ञानतत्त्वं वा (न अश्नुते) न प्राप्नोति। (शृतासः इत्) परिपक्वा एव जनाः (वहन्तः) उद्योगिनः सन्तः (तत्) आनन्दतत्त्वं ज्ञानतत्त्वं वा (सम् आशत) सम्यक् प्राप्तुं समर्था जायन्ते। [संपूर्वाद् अशूङ् व्याप्तौ धातोर्लडर्थे लुङ्, च्लेरभावश्छान्दसः] ॥१॥
Essence
परमात्मनः सकाशादानन्दरसमाचार्यस्य सकाशाच्च ज्ञानरसं तपस्विन एव जनाः प्राप्तुमर्हन्ति, न विलासिनः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५६५ क्रमाङ्के परमात्मनः पावकत्वविषये व्याख्याता। अत्र परमात्मन आचार्यस्य च विषयो वर्ण्यते।
Footnote
१. ऋ० ९।८३।१, ‘वह॑न्त॒स्तत् समाशत’ इति पाठः। साम० ५६५।