Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 872

1875 Mantra
Devata- पवमानः सोमः Rishi- ययातिर्नाहुषः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
सु꣣ता꣢सो꣣ म꣡धु꣢मत्तमाः꣣ सो꣢मा꣣ इ꣡न्द्रा꣢य म꣣न्दि꣡नः꣢ । प꣣वि꣡त्र꣢वन्तो अक्षरं दे꣣वा꣡न्ग꣢च्छन्तु वो꣣ म꣡दाः꣢ ॥८७२॥

सु꣣ता꣡सः꣢ । म꣡धु꣢꣯मत्तमाः । सो꣡माः꣢꣯ । इ꣡न्द्रा꣢꣯य । म꣣न्दि꣡नः꣢ । प꣣वि꣡त्र꣢वन्तः । अ꣣क्षरन् । देवा꣣न् । ग꣡च्छ꣢꣯न्तु । वः । म꣡दाः꣢꣯ ॥८७२॥

Mantra without Swara
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । पवित्रवन्तो अक्षरं देवान्गच्छन्तु वो मदाः ॥

सुतासः । मधुमत्तमाः । सोमाः । इन्द्राय । मन्दिनः । पवित्रवन्तः । अक्षरन् । देवान् । गच्छन्तु । वः । मदाः ॥८७२॥

Samveda - Mantra Number : 872
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मधुमत्तमाः) अतिशयेन मधुराः, (मन्दिनः) आनन्दजनकाः (सोमाः) ज्ञानरसाः (इन्द्राय) शिष्यस्य जीवात्मने (सुतासः) आचार्येण अभिषुताः सन्ति। (पवित्रवन्तः) पवित्रेण मनसा सम्बद्धाः ते (अक्षरन्) आत्मनि क्षरन्ति। हे शिष्याः ! (वः मदाः) युष्माकं मदकराः ते ज्ञानरसाः (देवान्) दिव्यगुणयुक्तान् अन्यान् जनान् अपि (गच्छन्तु) प्राप्नुवन्तु ॥१॥
Essence
सुयोग्यैर्गुरुभिर्मधुरपद्धत्या पाठिताः शिष्या ज्ञानवन्तः स्नातका भूत्वा बहिर्गत्वाऽन्येभ्यो जनेभ्यो विद्यादानं कुर्युः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५४७ क्रमाङ्के परमानन्दरसविषये व्याख्याता। अत्र ज्ञानरसविषयो वर्ण्यते।
Footnote
२. ऋ० ९।१०१।४, साम० ५४७, अथ० २०।१३७।४।