Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 870

1875 Mantra
Devata- पवमानः सोमः Rishi- त्रित आप्त्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣भि꣡ ब्रह्मी꣢꣯रनूषत य꣣ह्वी꣢रृ꣣त꣡स्य꣢ मा꣣त꣡रः꣢ । म꣣र्ज꣡य꣢न्ती꣣र्दिवः꣡ शिशु꣢꣯म् ॥८७०॥

अ꣣भि꣢ । ब्र꣡ह्मीः꣢꣯ । अ꣣नूषत । यह्वीः꣢ । ऋ꣣त꣡स्य꣢ । मा꣣त꣡रः꣢ । म꣣र्ज꣡य꣢न्तीः । दि꣣वः꣢ । शि꣡शु꣢꣯म् ॥८७०॥

Mantra without Swara
अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः । मर्जयन्तीर्दिवः शिशुम् ॥

अभि । ब्रह्मीः । अनूषत । यह्वीः । ऋतस्य । मातरः । मर्जयन्तीः । दिवः । शिशुम् ॥८७०॥

Samveda - Mantra Number : 870
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—वेदवाग्विषयकः। (यह्वीः) यह्व्यः महत्यः। [यह्व इति महतो नामधेयं यातश्च हूतश्च भवति। निरु० ८।८।] (ऋतस्य मातरः२) सत्यज्ञानस्य निर्मात्र्यः, (दिवः शिशुम्) द्योतमानस्य परमात्मनः पुत्रभूतं मानवम् (मर्जयन्तीः) मर्जयन्त्यः शोधयन्त्यः (ब्रह्मीः) ब्रह्म्यः, ब्रह्मणा प्रोक्ताः वेदवाचः (अभि अनूषत) गुणवर्णनेन सर्वान् पदार्थान् अभिष्टुवन्ति ॥ द्वितीयः—चन्द्रविषयकः। (यह्वीः) महत्यः, (ऋतस्य मातरः) वृष्टिजलस्य निर्मात्र्यः। [ऋतमिति उदकनाम। निघं० १।१२।] (मर्जयन्तीः) प्रकाशेन सर्वान् शोधयन्त्यः अलङ्कुर्वत्यो वा (ब्रह्मीः) ब्रह्मणः महतः सूर्यस्य इमाः, सूर्यसम्बन्धिन्यः दीधितयः (दिवः शिशुम्) आकाशस्य शिशुमिव विद्यमानं चन्द्रम् (अभि) अभिलक्ष्य, तं प्रकाशयितुम् (अनूषत) गच्छन्ति। [नवते गतिकर्मा। निघं० २।१४] ॥२॥ अत्र श्लेषालङ्कारः। द्वितीये व्याख्याने ‘दिवः शिशुम्’ इत्यत्र लुप्तोपमम् ॥२॥
Essence
यथा मातरः शिशुमुपगच्छन्ति तथैव वेदवाचः गुणवर्णनद्वारा सर्वान् पदार्थानुपगच्छन्ति, सूर्यरश्मयश्च चन्द्रं प्रकाशयितुं तमुपगच्छन्ति ॥२॥
Subject
अथ वेदवाग्विषयं चन्द्रविषयं चाह।
Footnote
१. ऋ० ९।३३।५, ‘म॒र्मृ॒ज्यन्ते॑ दि॒वः शिशु॑म्’ इति तृतीयः पादः। २. ऋतस्य यज्ञस्य मातरः निर्मात्र्यः स्तुतयः—इति सा०। मातरः धेनवः आदित्यरश्मयो वा आपो वा—इति वि०।