Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 87

1875 Mantra
Devata- अग्निः Rishi- गोपवन आत्रेयः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
वि꣣शो꣡वि꣢शो वो꣣ अ꣡ति꣢थिं वाज꣣य꣡न्तः꣢ पुरुप्रि꣣य꣢म् । अ꣣ग्निं꣢ वो꣣ दु꣢र्यं꣣ व꣡चः꣢ स्तु꣣षे꣢ शू꣣ष꣢स्य꣣ म꣡न्म꣢भिः ॥८७॥

वि꣣शो꣡वि꣢शः । वि꣣शः꣢ । वि꣣शः । वः । अ꣡ति꣢꣯थिम् । वा꣣जय꣡न्तः꣢ । पु꣣रुप्रिय꣢म् । पु꣣रु । प्रिय꣢म् । अ꣣ग्नि꣢म् । वः꣣ । दु꣡र्य꣢꣯म् । दुः । य꣣म् । व꣡चः꣢꣯ । स्तु꣣षे꣢ । शू꣣ष꣡स्य꣢ । म꣡न्म꣢꣯भिः ॥८७॥

Mantra without Swara
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् । अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः ॥

विशोविशः । विशः । विशः । वः । अतिथिम् । वाजयन्तः । पुरुप्रियम् । पुरु । प्रियम् । अग्निम् । वः । दुर्यम् । दुः । यम् । वचः । स्तुषे । शूषस्य । मन्मभिः ॥८७॥

Samveda - Mantra Number : 87
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे जनाः ! (वः२) यूयम् (विशः विशः) मनुष्यस्य मनुष्यस्य। विश इति मनुष्यनाम। निघं० २।३। (अतिथिम्) अतिथिम् इव इति लुप्तोपमम्, अतिथिवत् पूज्यम् इत्यर्थः, (पुरुप्रियम्) अतिशयस्नेहास्पदम् अग्निं परमेश्वरम् (वाजयन्तः) अर्चन्तः, भवत इति शेषः। वाजयति अर्चतिकर्मा। निघं० ३।१४। (दुर्यम्) गृहम्, गृहवत् शरणभूतम्। दुर्याः इति गृहनामसु पठितम्। निघं० ३।४। (अग्निम्) तम् अग्रनायकं परमेश्वरम् (वः) युष्माकम् (वचः) स्तुतिवचनं, प्राप्नोतु इति शेषः। अहमपि तं जगदीश्वरम् (शूषस्य मन्मभिः३) बलस्य सुखस्य वा स्तोत्रैः, सबलैः सुखजनकैर्वा स्तोत्रैरित्यर्थः। शूषम् इति बलनाम सुखनाम च। निघं० २।९, ३।६। मन्मभिः मननीयैः स्तोमैः इति निरुक्तम् १०।५। (स्तुषे) स्तौमि। ष्टुञ् धातोर्लेटि उत्तमैकवचने रूपम् ॥७॥
Essence
सर्वेषां हृदयेऽतिथिरूपेण विराजमानो भक्तवत्सलः परमेश्वरः सर्वैरेव जनैः स्तुतिवचोभिरभिनन्दनीयः ॥७॥
Subject
अथ परमात्मातिथेरर्चनमाह।
Footnote
१. ऋ० ८।७४।१, साम० १५६४। २. वः, बहुवचनमिदमेकवचनस्य स्थाने द्रष्टव्यम्, त्वाम्—इति वि०। वः यूयम्—इति भ०, सा०। ३. शूषस्य बलस्य मन्मभिः स्तुतिभिः, बलसम्बन्धिनीभिः स्तुतिभिरित्यर्थः—इति वि०। शूषस्य शूषाय सुखार्थम्—इति भ०। शूषस्य सुखस्य लाभाय—इति सा०।