Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 867

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
त꣣र꣢णि꣣रि꣡त्सि꣢षासति꣣ वा꣢जं꣣ पु꣡र꣢न्ध्या यु꣣जा꣢ । आ꣢ व꣣ इ꣡न्द्रं꣢ पुरुहू꣣तं꣡ न꣢मे गि꣣रा꣢ ने꣣मिं꣡ तष्टे꣢꣯व सु꣣द्रु꣡व꣢म् ॥८६७॥

त꣣र꣡णिः꣢ । इत् । सि꣣षासति । वा꣡ज꣢꣯म् । पु꣡र꣢꣯न्ध्या । पु꣡र꣢꣯म् । ध्या꣣ । युजा꣢ । आ । वः꣣ । इ꣡न्द्र꣢꣯म् । पु꣣रुहू꣢तम् । पु꣣रु । हू꣢तम् । न꣣मे । गिरा꣢ । ने꣣मि꣢म् । त꣡ष्टा꣢꣯ । इ꣣व । सुद्रु꣡व꣢꣯म् । सु꣣ । द्रु꣡व꣢꣯म् ॥८६७॥

Mantra without Swara
तरणिरित्सिषासति वाजं पुरन्ध्या युजा । आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम् ॥

तरणिः । इत् । सिषासति । वाजम् । पुरन्ध्या । पुरम् । ध्या । युजा । आ । वः । इन्द्रम् । पुरुहूतम् । पुरु । हूतम् । नमे । गिरा । नेमिम् । तष्टा । इव । सुद्रुवम् । सु । द्रुवम् ॥८६७॥

Samveda - Mantra Number : 867
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(तरणिः इत्) आपद्गतान् दुःखेभ्यः तारयितुकाम एव जनः (युजा) सहायभूतया (पुरन्ध्या) बहुधारिकया सहानुभूतिपूर्णया धिया (वाजम्) धनम् (सिषासति) अन्येभ्यो दातुमिच्छति। [सनितुं दातुमिच्छतीति सिषासति। षणु दाने सन्नन्तं रूपम्।] अतोऽहम् (पुरुहूतम्) बहुभिराहूतम् (वः) युष्माकम् (इन्द्रम्) धनिकं जनम् (गिरा) वाचा (आनमे) आनमये, निर्धनेभ्यो धनं दातुम् सुप्रवर्तये, (तष्टा इव) शिल्पकारो यथा (नेमिम्) रथचक्रवलयम् (सुद्रुवम्) सुप्रवर्तनयोग्यां करोति तद्वत्। [सुष्ठु द्रवतीति सुद्रुः तां सुद्रुवम्] ॥१॥२ अत्रोपमालङ्कारः ॥१॥
Essence
मनुष्यैरीश्वरोपासनया सह धनादिदानेन दीनानां साहाय्यमपि विधेयम् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २३८ क्रमाङ्के परमेश्वरनृपत्योर्विषये व्याख्यातपूर्वा। अत्र धनदः प्रशस्यते।
Footnote
१. ऋ० ७।३२।२०, ‘सुद्रुवम्’ इत्यत्र ‘सुद्र्व॑म्’ इति पाठः। साम० २३८। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजप्रजाजनाः परस्परं कथं वर्तेरन्निति विषये व्याख्यातवान्।