Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 866

1875 Mantra
Devata- इन्द्रः Rishi- मेध्यातिथिः काण्वः Chhand- बृहती Swara- मध्यमः
Mantra with Swara
क꣡ण्वे꣢भिर्धृष्ण꣣वा꣢ धृ꣣ष꣡द्वाजं꣢꣯ दर्षि सह꣣स्रि꣡ण꣢म् । पि꣣श꣡ङ्ग꣢रूपं मघवन्विचर्षणे म꣣क्षू꣡ गोम꣢꣯न्तमीमहे ॥८६६॥

क꣡ण्वे꣢꣯भिः । धृ꣣ष्णो । आ꣢ । धृ꣣ष꣢त् । वा꣡ज꣢꣯म् । द꣣र्षि । सहस्रि꣡ण꣢म् । पि꣣श꣡ङ्ग꣢रूपम् । पि꣣श꣡ङ्ग꣢ । रू꣣पम् । मघवन् । विचर्षणे । वि । चर्षणे । मक्षू । गो꣡म꣢꣯न्तम् । ई꣣महे ॥८६६॥

Mantra without Swara
कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् । पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥

कण्वेभिः । धृष्णो । आ । धृषत् । वाजम् । दर्षि । सहस्रिणम् । पिशङ्गरूपम् । पिशङ्ग । रूपम् । मघवन् । विचर्षणे । वि । चर्षणे । मक्षू । गोमन्तम् । ईमहे ॥८६६॥

Samveda - Mantra Number : 866
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (धृष्णो) अविद्यादोषादिधर्षणशील परमात्मन् आचार्य वा ! (कण्वेभिः) मेधाविभिर्विद्वद्भिः (धृषन्) अविद्यादैन्यादिकं धर्षयन् त्वम् (सहस्रिणम्) सहस्रसंख्याकम् (वाजम्) विद्यादिधनम् (आ दर्षि) प्रयच्छ। [आङ्पूर्वाद  विदारणे क्र्यादिः। ततो लोटि सिपि ‘बहुलं छन्दसि’ अ० २।४।७३ इति विकरणस्य लुक्।] हे (मघवन्) ऐश्वर्यशालिन् (विचर्षणे२) सर्वद्रष्टः परमात्मन् शास्त्रद्रष्टः आचार्य वा ! (पिशङ्गरूपम्) पिङ्गलवर्णं तेजोमयं वा, (गोमन्तम्) उत्तमवाग्धेनुपृथिव्यादियुक्तं च (वाजम्) सुवर्णाख्यं ब्रह्मचर्याख्यं वा धनम्, वयम् (मक्षु) सद्य एव (ईमहे) याचामहे। [ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९] ॥३॥
Essence
परमात्मा गुरुश्च सुयोग्यानुपासकान् शिष्यांश्च प्रति सर्वं सुवर्णमणिमुक्ताधेन्वादिकं विद्याब्रह्मचर्यसद्वृत्तादिकं च विपुलमैश्वर्यं प्रापयतः ॥३॥
Subject
अथ परमात्मानमाचार्यं च प्रार्थयते।
Footnote
१. ऋ० ८।३३।३, अथ० २०।५२।३, ५७।१६। २. विचर्षणे विविधाश्चर्षणयः पुरुषा यस्य स विचर्षणिः अथवा विश्वस्य द्रष्टा—इति वि०।