Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 865

1875 Mantra
Devata- इन्द्रः Rishi- मेध्यातिथिः काण्वः Chhand- बृहती Swara- मध्यमः
Mantra with Swara
स्व꣡र꣢न्ति त्वा सु꣣ते꣢꣫ नरो꣣ व꣡सो꣢ निरे꣣क꣢ उ꣣क्थि꣡नः꣢ । क꣣दा꣢ सु꣣तं꣡ तृ꣢षा꣣ण꣢꣫ ओक꣣ आ꣡ ग꣢म꣣ इ꣡न्द्र꣢ स्व꣣ब्दी꣢व꣣ व꣡ꣳस꣢गः ॥८६५॥

स्व꣡रन्ति꣢꣯ । त्वा꣣ । सुते꣢ । न꣡रः꣢꣯ । व꣡सो꣢꣯ । नि꣣रेके꣢ । उ꣣क्थि꣡नः꣢ । क꣣दा꣢ । सु꣣त꣢म् । तृ꣣षाणः꣡ । ओ꣡कः꣢꣯ । आ । ग꣣मः । इ꣡न्द्र꣢꣯ । स्व꣣ब्दी꣢ । इ꣣व । व꣡ꣳस꣢꣯गः ॥८६५॥

Mantra without Swara
स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः । कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वꣳसगः ॥

स्वरन्ति । त्वा । सुते । नरः । वसो । निरेके । उक्थिनः । कदा । सुतम् । तृषाणः । ओकः । आ । गमः । इन्द्र । स्वब्दी । इव । वꣳसगः ॥८६५॥

Samveda - Mantra Number : 865
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपक्षे। हे (वसो) उपासकानां धनरूप, तेषु सद्गुणानां च निवासयितः परमात्मन् ! (उक्थिनः) स्तोतारः (नरः) मनुष्याः (सुते) श्रद्धारसे (निरेके२) निर्गते, उद्वेल्लिते सति (त्वा) त्वाम् (स्वरन्ति) आह्वयन्ति। [स्वृ शब्दोपतापयोः, भ्वादिः।] हे (इन्द्र) परमैश्वर्यवन् दुर्गुणविदारक ! (कदा) कस्मिन् काले (सुतम्) अभिषुतं श्रद्धारसम् (तृषाणः) पिपासुः, त्वम् (ओकः) हृदय-सदनम् (आगमः) आगमिष्यसि, (इव) यथा (वंसगः) वननीयगमनः सेवनीयगतिः (स्वब्दी३) शोभनस्य उदकस्य दाता सूर्यः (ओकः) समुद्ररूपं गृहम् आगच्छति। [वंसः, वन संभक्तौ, वंसं वननीयं सम्भजनीयं यथा स्यात्तथा गच्छतीति वंसगः। स्वब्दी, शोभनाः मेघस्थाः अपः ददातीति तादृशः] ॥ द्वितीयः—आचार्यपक्षे। कार्यवशाद् गुरुकुलाद् बर्हिर्गतमागमने विलम्बमानं चाचार्यं शिष्याः सोत्कमाह्वयन्ति—हे (वसो) शिष्येषु विद्यादिनिवासक आचार्य ! (उक्थिनः) वेदपाठिनः (नरः) ब्रह्मचारिणः (सुते) विद्याध्ययनसत्रे (निरेके) आगते सति (त्वा) त्वाम् (स्वरन्ति) आह्वयन्ति। हे (इन्द्र) अविद्यादुर्गुणादिविदारक आचार्यवर ! (कदा) कस्मिन् काले (तृषाणः) शिष्यान् कामयमानः त्वम् (ओकः) गुरुकुलगृहम् (आगमः) आगमिष्यसि ? (वंसगः) संभजनीयगतिः (स्वब्दी) वृष्टिजलप्रदाता सूर्यः (इव) यथा जलं वर्षितुम् (ओकः) अन्तरिक्षरूपं गृहम् आगच्छति तद्वत् ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
यथा जलस्य पिपासुः सूर्यः किरणैः समुद्रं प्राप्नोति तथा भक्तिरसं पिपासन् परमेश्वर उपासकानां हृदयं गच्छति, यथा च सूर्योऽन्तरिक्षस्थं जलं भूमौ वर्षति तथाऽऽचार्यो विद्यारसं छात्रेषु वर्षति ॥२॥
Subject
अथ परमात्मानमाचार्यं चाह्वयति।
Footnote
१. ऋ० ८।३३।२, अथ० २०।५२।२, ५७।१५। २. निरेके निर्गमे—इति सा०। दानवति यज्ञे—इति वि०। ३. स्वब्दीव स्वभूतशब्द इव। वंसगः वननीयगमनो वृषभः—इति सा०। स्वब्दी इन्द्रः शोभनं शब्दं करोति, पर्जन्यो भूत्वा वृष्टिधारणम्—इति वि०।