Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 864

1875 Mantra
Devata- इन्द्रः Rishi- मेध्यातिथिः काण्वः Chhand- बृहती Swara- मध्यमः
Mantra with Swara
व꣣यं꣡ घ꣢ त्वा सु꣣ता꣡व꣢न्त꣣ आ꣢पो꣣ न꣢ वृ꣣क्त꣡ब꣢र्हिषः । प꣣वि꣡त्र꣢स्य प्र꣣स्र꣡व꣢णेषु वृत्रह꣣न्प꣡रि꣢ स्तो꣣ता꣡र꣢ आसते ॥८६४॥

व꣣य꣢म् । घ꣡ । त्वा । सुता꣡व꣢न्तः । आ꣡पः꣢꣯ । न । वृ꣣क्त꣡ब꣢र्हिषः । वृ꣣क्त꣢ । ब꣣र्हिषः । पवि꣡त्र꣢स्य । प्र꣣स्र꣡व꣢णेषु । प्र꣣ । स्र꣡व꣢꣯णेषु । वृ꣣त्रहन् । वृत्र । हन् । प꣡रि꣢꣯ । स्तो꣣ता꣡रः꣢ । आ꣣सते ॥८६४॥

Mantra without Swara
वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥

वयम् । घ । त्वा । सुतावन्तः । आपः । न । वृक्तबर्हिषः । वृक्त । बर्हिषः । पवित्रस्य । प्रस्रवणेषु । प्र । स्रवणेषु । वृत्रहन् । वृत्र । हन् । परि । स्तोतारः । आसते ॥८६४॥

Samveda - Mantra Number : 864
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
पुत्रान् गुरुकुले प्रवेशयितुं तैः सहागताः पितरः आचार्यं ब्रुवते—हे आचार्यप्रवर ! (वृक्तबर्हिषः) परित्यक्तान्तरिक्षाः (आपः न) मेघजलानि इव (वृक्तबर्हिषः) परित्यक्तगृहाः२ (सुतवन्तः) पुत्रैः सहिताः (वयम्) पितरः (त्वा घ) त्वां खलु प्राप्ताः स्मः। हे (वृत्रहन्) दोषाणां हन्तः आचार्यश्रेष्ठ ! (स्तोतारः) समित्पाणयो भूत्वा त्वत्सकाशमागताः त्वद्गुणान् गातारः शिष्याः (पवित्रस्य) विशुद्धस्य ज्ञानस्य आचरणस्य च (प्रस्रवणेषु) प्रवाहेषु (परिआसते) परिप्लवन्ति। अतोऽस्मत्पुत्रानुपनीय विदुषः कुर्विति भावः ॥१॥ अत्र श्लिष्टोपमालङ्कारः। कारणरूपेणोत्तरार्द्धवाक्येन कार्यरूपस्य पूर्वार्द्धवाक्यस्य समर्थनादर्थान्तरन्यासोऽपि ॥१॥
Essence
सर्वैर्मातापितृभिः स्वबालकान् स्वबालिकाश्चाचार्यस्याचार्याया वा सकाशे समर्प्य ते ताश्च विद्वांसो विदुष्यश्च कार्याः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २६१ क्रमाङ्के परमेश्वरोपासनाविषये व्याख्याता। अत्राचार्यविषयो वर्ण्यते।
Footnote
१. ऋ० ८।३३।१, अथ० २०।५२।१, ५७।१४। साम० २६१, ऋषिः मेधातिथिः काण्वः। २. (बर्हिः) उत्तमं गृहं शरीरं वा—इति ऋ० ७।२।८ भाष्ये द०।