Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 863

1875 Mantra
Devata- इन्द्रः Rishi- पुरुहन्मा आङ्गिरसः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
आ꣡ प꣢प्राथ महि꣣ना꣡ वृष्ण्या꣢꣯ वृष꣣न्वि꣡श्वा꣢ शविष्ठ꣣ श꣡व꣢सा । अ꣣स्मा꣡ꣳ अ꣢व मघव꣣न्गो꣡म꣢ति व्र꣣जे꣡ वज्रि꣢꣯ञ्चि꣣त्रा꣡भि꣢रू꣣ति꣡भिः꣢ ॥८६३॥

आ । प꣣प्राथ । महिना꣢ । वृ꣡ष्ण्या꣢꣯ । वृ꣣षन् । वि꣡श्वा꣢꣯ । श꣣विष्ठ । श꣡व꣢꣯सा । अ꣣स्मा꣢न् । अ꣣व । मघवन् । गो꣡म꣢꣯ति । व्र꣣जे꣢ । व꣡ज्रि꣢꣯न् । चि꣣त्रा꣡भिः꣢ । ऊ꣣ति꣡भिः꣢ ॥८६३॥

Mantra without Swara
आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा । अस्माꣳ अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः ॥

आ । पप्राथ । महिना । वृष्ण्या । वृषन् । विश्वा । शविष्ठ । शवसा । अस्मान् । अव । मघवन् । गोमति । व्रजे । वज्रिन् । चित्राभिः । ऊतिभिः ॥८६३॥

Samveda - Mantra Number : 863
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (वृषन्) सुखवर्षक, (शविष्ठ) बलवत्तम जगदीश्वर ! त्वम् (महिना) महिम्ना (शवसा) बलेन च (विश्वा) सर्वाणि (वृष्णया) वृष्ण्यानि बलानि आत्मबलविद्युद्बलवायुबलसूर्यबलादीनि। [वृषसु वीर्यवत्सु भवं वृष्ण्यम्, भवार्थे यत्।] (आ पप्राथ) विस्तारितवानसि। हे (मघवन्) ऐश्वर्यशालिन् ! हे (वज्रिन्) वज्रधर इव दण्डसामर्थ्ययुक्त ! त्वम् (गोमति व्रजे) सूर्यचन्द्रनक्षत्रादिलोकलोकान्तरयुक्तेऽस्मिन् ब्रह्माण्डे (चित्राभिः) अद्भुताभिः (ऊतिभिः) रक्षाभिः (अस्मान्) उपासकान् (अव) पालय ॥ द्वितीयः—जीवात्मपरः ! हे (वृषन्) देहस्थेषु मनोबुद्ध्यादिषु बलवत्तम मदीय आत्मन् ! त्वम् (महिना) महिम्ना (शवसा) बलेन च (विश्वा) सर्वाणि (वृष्ण्या) वृष्ण्यानि प्राणमनोबुद्धीन्द्रियादीनां बलानि (आ पप्राथ) विस्तारयसि। हे (मघवन्) सद्गुणैश्वर्यवन् ! हे (वज्रिन्) वाग्वज्रयुक्त ! [वाग्घि वज्रः। ऐ० ब्रा० ४।१।] त्वम् (गोमति व्रजे) इन्द्रियरूपगोयुक्ते देहरूपे गोष्ठे (चित्राभिः) अद्भुताभिः (ऊतिभिः) रक्षाभिः (अस्मान् अव) पालय ॥२॥ अत्र श्लेषालङ्कारः। ‘वृष्, वृष’ ‘शवि, शव’ इत्यत्र छेकानुप्रासः ॥२॥
Essence
यथा ब्रह्माण्डे सर्वेषु बलवत्सु पदार्थेषु परमेश्वरकृतं बलमस्ति तथा देहपिण्डे प्राणमनोबुद्धीन्द्रियादिषु जीवात्मदत्तं सामर्थ्यं विद्यते, जीवात्मापि च परमेश्वरादेव तादृशं सामर्थ्यं प्राप्नोति ॥२॥
Subject
अथ परमात्मजीवात्मनोरुभयोर्विषयमाह।
Footnote
१. ऋ० ८।७०।६, अथ० २०।८१।२, ९२।२१।