Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 861

1875 Mantra
Devata- पवमानः सोमः Rishi- पराशरः शाक्त्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
ए꣣वा꣡ नः꣢ सोम परिषि꣣च्य꣡मा꣢न꣣ आ꣡ प꣢वस्व पू꣣य꣡मा꣢नः स्व꣣स्ति꣢ । इ꣢न्द्र꣣मा꣡ वि꣢श बृह꣣ता꣡ मदे꣢꣯न व꣣र्ध꣢या꣣ वा꣡चं꣢ ज꣣न꣢या꣣ पु꣡र꣢न्धिम् ॥८६१॥

एव꣢ । नः꣣ । सोम । परिषिच्य꣡मा꣢नः । प꣣रि । सिच्य꣡मा꣢नः । आ । प꣣वस्व । पूय꣡मा꣢नः । स्व꣣स्ति꣢ । सु꣣ । अस्ति꣢ । इ꣡न्द्र꣢꣯म् । आ । वि꣣श । बृहता꣢ । म꣡दे꣢꣯न । व꣣र्ध꣡य꣢ । वा꣡च꣢꣯म् । ज꣣न꣡य꣢ । पु꣡र꣢꣯न्धिम् । पु꣡र꣢꣯म् । धि꣣म् ॥८६१॥

Mantra without Swara
एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति । इन्द्रमा विश बृहता मदेन वर्धया वाचं जनया पुरन्धिम् ॥

एव । नः । सोम । परिषिच्यमानः । परि । सिच्यमानः । आ । पवस्व । पूयमानः । स्वस्ति । सु । अस्ति । इन्द्रम् । आ । विश । बृहता । मदेन । वर्धय । वाचम् । जनय । पुरन्धिम् । पुरम् । धिम् ॥८६१॥

Samveda - Mantra Number : 861
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) परमकवेः परमात्मनः काव्याज्जनित काव्यानन्दरस ! (एव) सत्यम् (परिषिच्यमानः) परिक्षार्यमाणः, (पूयमानः) अस्मान् प्रति प्रेर्यमाणः त्वम् (नः) अस्मभ्यम् (स्वस्ति) भद्रम् (आ पवस्व) आनय। (बृहता) महता (मदेन) तृप्तियोगेन (इन्द्रम्) जीवात्मानम् (आ विश) प्र विश, (वाचम्) स्तुतिवाचम् (वर्धय) वृद्धिं गमय, स्तोतारं च (पुरन्धिम्) बहुधियं बहुकर्माणं वा (जनय) कुरु। [पुरन्धिर्बहुधीः। निरु० ६।१३।५१] ॥३॥ अत्रानेकक्रियाणामेकेन कर्तृकारकेण योगाद् दीपकालङ्कारः ॥३॥
Essence
हृदये परिषिच्यमानो महाकवेः परमात्मनः काव्यानन्दरसः सहृदयस्य हृदयं चमत्कृत्य तं प्रभुगीतानां गायकं बहुप्रज्ञं बहुक्रियमुत्साहवन्तं सरसं कारुणिकं च कुरुते ॥३॥ अस्मिन् खण्डे गुरूणां, स्नातकस्य, महाकविकर्मणः, परमकवेः परमात्मनस्तत्काव्यरसस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति ॥
Subject
अथ परमकवेः परमात्मनः काव्यरसं वर्णयन्नाह।
Footnote
१. ऋ० ९।९७।३६, ‘मदेन’ इत्यत्र ‘रवे॑ण’ इति भेदः।