Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 860

1875 Mantra
Devata- पवमानः सोमः Rishi- पराशरः शाक्त्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
सो꣢मं꣣ गा꣡वो꣢ धे꣣न꣡वो꣢ वावशा꣣नाः꣢꣫ सोमं꣣ वि꣡प्रा꣢ म꣣ति꣡भिः꣢ पृ꣣च्छ꣡मा꣢नाः । सो꣡मः꣢ सु꣣त꣡ ऋ꣢च्यते पू꣣य꣡मा꣢नः꣣ सो꣡मे꣢ अ꣣र्का꣢स्त्रि꣣ष्टु꣢भः꣣ सं꣡ न꣢वन्ते ॥८६०॥

सो꣡म꣢꣯म् । गा꣡वः꣢꣯ । धे꣣न꣡वः꣢ । वा꣣वशानाः꣢ । सो꣡म꣢꣯म् । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । मति꣡भिः꣢ । पृ꣡च्छ꣡मा꣢नाः । सो꣡मः꣢꣯ । सु꣣तः꣢ । ऋ꣣च्यते । पूय꣡मा꣢नः । सो꣡मे꣢꣯ । अ꣣र्काः꣢ । त्रि꣡ष्टु꣡भः꣢ । त्रि꣣ । स्तु꣡भः꣢꣯ । सम् । न꣣वन्ते ॥८६०॥

Mantra without Swara
सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः । सोमः सुत ऋच्यते पूयमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ॥

सोमम् । गावः । धेनवः । वावशानाः । सोमम् । विप्राः । वि । प्राः । मतिभिः । पृच्छमानाः । सोमः । सुतः । ऋच्यते । पूयमानः । सोमे । अर्काः । त्रिष्टुभः । त्रि । स्तुभः । सम् । नवन्ते ॥८६०॥

Samveda - Mantra Number : 860
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(धेनवः) प्रीणयित्र्यः (गावः) क्षीरिण्यः वाचो वा (सोमम्) परमकविं परमात्मानमेव (वावशानाः) कामयमानाः, यन्ति इति पूर्वमन्त्रादाकृष्यते। (विप्राः) ज्ञानिनः (मतिभिः) स्तोत्रैः (सोमम्) परमकविं परमात्मानमेव (पृच्छमानाः) पृच्छन्तः यन्ति। (सुतः) ध्यातः (सोमः) परमात्मा (पूयमानः) हृदये प्रेर्यमाणः। [पवते गतिकर्मा। निघं० २।१४।] (ऋच्यते) सहृदयैः स्तूयते। [ऋच स्तुतौ तुदादेः कर्मणि रूपम्।] (सोमे) तस्मिन् परमात्मनि (त्रिष्टुभः) त्रिष्टुप्छन्दस्काः त्रिपाद्गायत्रीछन्दस्काः वा (अर्काः) मन्त्राः। [अर्को मन्त्रो भवति यदनेनार्चन्ति। निरु० ५।५।२४।] (सं नवन्ते) संगताः (सन्ति), तमेव प्रतिपादयन्तीत्यर्थः। [नवते गतिकर्मा निघं० २।१४] ॥२॥ अत्र पूर्वार्द्धेऽसम्बन्धे सम्बन्धरूपोऽतिशयोक्तिरलङ्कारः ॥२॥
Essence
जगति सर्वे प्राणिनः सर्वे चाचेतनाः पदार्थाः स्वस्वकर्मणि संलग्नाः स्वरचयितारं परमात्मानमिवान्विष्यन्ति ॥२॥
Subject
अथ परमकविं परमात्मानं वर्णयति।
Footnote
१. ऋ० ९।९७।३५, ‘सोमः॑ सु॒तः पू॑यते अ॒ज्यमा॑नः॒’ इति तृतीयः पादः।