Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 86

1875 Mantra
Devata- अग्निः Rishi- वसूयव आत्रेयः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
य꣡द्वाहि꣢꣯ष्ठं꣣ त꣢द꣣ग्न꣡ये꣢ बृ꣣ह꣡द꣢र्च विभावसो । म꣡हि꣢षीव꣣ त्व꣢द्र꣣यि꣢꣫स्त्वद्वाजा꣣ उ꣡दी꣢रते ॥८६॥

य꣢त् । वा꣡हि꣢꣯ष्ठम् । तत् । अ꣣ग्न꣡ये꣢ । बृ꣣ह꣢त् । अ꣣र्च । विभावसो । विभा । वसो । म꣡हि꣢꣯षी । इ꣣व । त्व꣢त् । र꣣यिः꣢ । त्वत् । वा꣡जाः꣢꣯ । उत् । ई꣣रते ॥८६॥

Mantra without Swara
यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो । महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ॥

यत् । वाहिष्ठम् । तत् । अग्नये । बृहत् । अर्च । विभावसो । विभा । वसो । महिषी । इव । त्वत् । रयिः । त्वत् । वाजाः । उत् । ईरते ॥८६॥

Samveda - Mantra Number : 86
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत्) स्तोत्रम् (वाहिष्ठम्) वोढृतमम्, अतिशयेन सहृदयगतभक्ति- भावस्य प्रापकम् भवेत् (तत्) स्तोत्रम् (अग्नये) तेजःस्वरूपाय परमात्मने, देयमिति शेषः। तदनुसारम् हे (विभावसो) दीप्तिधन जीवात्मन् ! त्वं परमात्मानम् (बृहत्) बहु (अर्च) पूजय। हे परमात्मन् ! (त्वत्) तव सकाशात् (महिषी२ इव) महती भूमिरिव। महिष इति महन्नाम। निघं० ३।३, ततः स्त्रियां महिषी। भूरिति महिषी। तै० ब्रा० ३।९।४।५। (रयिः) सर्वं धनम्, (त्वत्) तव सकाशात् (वाजाः) अन्नानि बलानि च (उदीरते) उद्गच्छन्ति, उत्पद्यन्ते। उत् पूर्वः ईर गतौ कम्पने च, ततः लटि प्रथमपुरुषबहुवचने रूपम् ॥६॥३ अत्रोपमालङ्कारः। यथा महती पृथिवी त्वद् उदीर्ते, तथा त्वद् रयिर्वाजाश्च उदीरते इति भावः ॥६॥
Essence
यथा परमात्मनाऽस्माकमुपकाराय भूमी रचिता, तथैव निखिलं धनधान्यादिकं बलपराक्रमसद्गुणादिकं चाप्यस्मभ्यं प्रदत्तमस्ति। अतो हार्दिकेन भक्तिभावेन स सवैर्वन्दनीयः ॥६॥
Subject
परमात्मने हृद्यं स्तोत्रमर्पणीयमित्युच्यते।
Footnote
१. ऋ० ५।२५।७। य० २६।१२, ऋषिः नोधा गोतमः। २. महिषी, महिषशब्दो महन्नाम। महती रयिः धनम्, त्वत्तः उदीरते उद्गच्छति। इवेति पूरणः—इति भ०। ३. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये यजुर्भाष्ये च विद्वत्पक्षे व्याख्यातवान्।