Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 859

1875 Mantra
Devata- पवमानः सोमः Rishi- पराशरः शाक्त्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
ति꣣स्रो꣡ वाच꣢꣯ ईरयति꣣ प्र꣡ वह्नि꣢꣯रृ꣣त꣡स्य꣢ धी꣣तिं꣡ ब्रह्म꣢꣯णो मनी꣣षा꣢म् । गा꣡वो꣢ यन्ति꣣ गो꣡प꣢तिं पृ꣣च्छ꣡मा꣢नाः꣣ सो꣡मं꣢ यन्ति म꣣त꣡यो꣢ वावशा꣣नाः꣢ ॥८५९॥

ति꣣स्रः꣢ । वा꣡चः꣢꣯ । ई꣣रयति । प्र꣢ । व꣡ह्निः꣢꣯ । ऋ꣣त꣡स्य꣢ । धी꣣ति꣢म् । ब्र꣡ह्म꣢꣯णः । म꣣नीषा꣢म् । गा꣡वः꣢꣯ । य꣣न्ति । गो꣡प꣢꣯तिम् । गो । प꣣तिम् । पृच्छ꣡मा꣢नाः । सो꣡म꣢꣯म् । य꣣न्ति । म꣡त꣢यः । वा꣣वशानाः꣢ ॥८५९॥

Mantra without Swara
तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् । गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥

तिस्रः । वाचः । ईरयति । प्र । वह्निः । ऋतस्य । धीतिम् । ब्रह्मणः । मनीषाम् । गावः । यन्ति । गोपतिम् । गो । पतिम् । पृच्छमानाः । सोमम् । यन्ति । मतयः । वावशानाः ॥८५९॥

Samveda - Mantra Number : 859
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वह्निः) काव्यस्य वाहकः महाकविः (तिस्रः) गद्यपद्योभयात्मिकीः अभिधालक्षणाव्यञ्जनात्मिकाः वा (वाचः) गिरः (प्र ईरयति) प्रयुङ्क्ते। स स्वकाव्ये (ऋतस्य) सत्यस्य (धीतिम्) धारणम्, (ब्रह्मणः) परमात्मनः (मनीषाम्) स्तुतिं च प्र ईरयति प्रयुङ्क्ते। (गावः) वाचः (गोपतिम्) वाचस्पतिं तं महाकविं, तद्विषये इत्यर्थः (पृच्छमानाः) प्रश्नं कुर्वत्यः इव (यन्ति) गच्छति, क्वाऽऽस्ते स महाकविर्यः स्वकाव्ये प्रयुज्यास्मान् कृतार्थयिष्यति इति पृच्छन्तीवेत्यर्थः। (मतयः) स्तुतयः अपि (सोमम्) तमेव रससिद्धं कविं (वावशानाः) कामयमानाः अन्विष्यन्त्यः इव (यन्ति) गच्छन्ति ॥१॥ अत्रोत्तरार्द्धेऽसम्बन्धे सम्बन्धरूपोऽतिशयोक्तिरलङ्कारः ॥१॥
Essence
केचन विरला एव रससिद्धाः कवयोऽभिधालक्षणाव्यञ्जनावतीं गद्यपद्योभयात्मिकीं वाचं प्रयुञ्जानाः सात्त्विकानि शान्तिरसमयानि ब्रह्मस्तोत्राणि विरच्य स्वां वाचं कृतकृत्यां कुर्वन्ति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५२५ क्रमाङ्के परमात्मनो जीवात्मन आचार्यस्य च विषये व्याख्याता। अत्र महाकविकर्म वर्ण्यते।
Footnote
१. ऋ० ९।९७।३४, साम० ५२५।