Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 857

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
त꣡र꣢त्समु꣣द्रं꣡ पव꣢꣯मान ऊ꣣र्मि꣢णा꣣ रा꣡जा꣢ दे꣣व꣢ ऋ꣣तं꣢ बृ꣣ह꣢त् । अ꣡र्षा꣢ मि꣣त्र꣢स्य꣣ व꣡रु꣢णस्य꣣ ध꣡र्म꣢णा꣣ प्र꣡ हि꣢न्वा꣣न꣢ ऋ꣣तं꣢ बृ꣣ह꣢त् ॥८५७॥

त꣡रत्꣢꣯ । स꣣मु꣢द्रम् । स꣣म् । उद्र꣢म् । प꣡व꣢꣯मानः । ऊ꣣र्मि꣡णा꣢ । रा꣡जा꣢꣯ । दे꣣वः꣢ । ऋ꣣त꣢म् । बृ꣣ह꣢त् । अ꣡र्ष꣢꣯ । मि꣣त्र꣡स्य꣢ । मि꣣ । त्र꣡स्य꣢꣯ । व꣡रु꣢꣯णस्य । ध꣡र्म꣢꣯णा । प्र । हि꣣न्वानः꣢ । ऋ꣣त꣢म् । बृ꣣ह꣢त् ॥८५७॥

Mantra without Swara
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् । अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ॥

तरत् । समुद्रम् । सम् । उद्रम् । पवमानः । ऊर्मिणा । राजा । देवः । ऋतम् । बृहत् । अर्ष । मित्रस्य । मि । त्रस्य । वरुणस्य । धर्मणा । प्र । हिन्वानः । ऋतम् । बृहत् ॥८५७॥

Samveda - Mantra Number : 857
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
शिष्यः (राजा) तेजसा राजमानः (देवः) विद्वांश्च सन् (बृहत् ऋतम्) महत् सत्यज्ञानं सत्याचरणं सत्यं ब्रह्मानन्दं च (ऊर्मिणा) तरङ्गेण (पवमानः) स्वात्मनि प्रवाहयन् (समुद्रम्) ब्रह्मचर्याश्रमरूपम् अर्णवम् (तरत्) तरति, स्नातको भवति। सम्प्रति प्रत्यक्षकृतमाह—हे विद्वन् स्नातक ! त्वम् (मित्रस्य) मैत्रीनिर्वाहकस्य, (वरुणस्य) शिष्यरूपेण तव वरणकर्तुः आचार्यस्य (धर्मणा) उपदिष्टधर्मानुसारम्, जनसमाजे (बृहत्) महत् सत्यज्ञानं सत्याचरणं सत्यं ब्रह्मानन्दं च (हिन्वानः) प्रेरयन् (अर्ष) गच्छ, व्यवहर। [ऋषी गतौ, तुदादिः] ॥२॥ अथर्ववेदः स्नातकं वर्णयन्नेवमाह—ब्र॒ह्म॒चा॒री ब्रह्म॒ भ्राज॑द् बिभर्ति॒ तस्मि॑न् दे॒वा अधि॒ विश्वे॑ स॒मोताः॑। प्रा॒णा॒पा॒नौ ज॒नय॒न्नाद् व्या॒नं वाचं॒ मनो॒ हृद॑यं॒ ब्रह्म॑ मे॒धाम् ॥ चक्षुः॒ श्रोत्रं॒ यशो॑ अ॒स्मासु॑ धे॒ह्यन्नं॒ रेतो॒ लोहि॑तमु॒दर॑म् ॥ तानि॒ कल्प॑द् ब्रह्मचा॒री स॑लि॒लस्य॑ पृ॒ष्ठे तपो॑ऽतिष्ठत् त॒प्यमा॑नः समुद्रे। स स्ना॒तो ब॒भ्रुः पि॑ङ्ग॒लः पृ॑थि॒व्यां ब॒हु रो॑चते। (अथ० ११।५।२४-२६) इति ॥
Essence
स्नातकैर्गुरुभ्योऽधीतं सर्वमपि लौकिकमाध्यात्मिकं च ज्ञानं समाजे प्रसारणीयम् ॥२॥
Subject
अथ स्नातको वर्ण्यते।
Footnote
१. ऋ० ९।१०७।१५ ‘अर्षा’ इत्यत्र ‘अर्ष॑न्’ इति पाठः।