Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 856

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
अ꣣भि꣡ सोमा꣢꣯स आ꣣य꣢वः꣣ प꣡व꣢न्ते꣣ म꣢द्यं꣣ म꣡द꣢म् । स꣣मु꣡द्रस्याधि꣢꣯ वि꣣ष्ट꣡पे꣢ मनी꣣षि꣡णो꣢ मत्स꣣रा꣡सो꣢ मद꣣च्यु꣡तः꣢ ॥८५६॥

अ꣡भि꣢ । सो꣡मा꣢꣯सः । आ꣣य꣡वः꣢ । प꣡व꣢꣯न्ते । म꣡द्य꣢꣯म् । म꣡द꣢꣯म् । स꣣मु꣡द्र꣢स्य । स꣡म् । उ꣡द्र꣢स्य । अ꣡धि꣢꣯ । वि꣣ष्ट꣡पे꣢ । म꣣नीषि꣡णः꣢ । म꣣त्सरा꣡सः꣢ । म꣣दच्यु꣡तः꣢ । म꣡द । च्यु꣡तः꣢꣯ ॥८५६॥

Mantra without Swara
अभि सोमास आयवः पवन्ते मद्यं मदम् । समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ॥

अभि । सोमासः । आयवः । पवन्ते । मद्यम् । मदम् । समुद्रस्य । सम् । उद्रस्य । अधि । विष्टपे । मनीषिणः । मत्सरासः । मदच्युतः । मद । च्युतः ॥८५६॥

Samveda - Mantra Number : 856
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(आयवः) क्रियाशीलाः। [आ समन्तात् यन्ति गच्छन्ति क्रियाशीला भवन्तीति आयवः। इण् गतौ धातोः ‘छन्दसीणः’ उ० १।२ इत्यनेन उण् प्रत्ययः।] (मनीषिणः) मननशीलाः, (मत्सरासः) उत्साहसञ्चारिणः, (मदच्युतः) हर्षवर्षिणः (सोमासः) विद्यारसपूर्णा गुरवः (समुद्रस्य) ज्ञानसागरस्य (विष्टपे अधि) लोके, गुरुकुले इत्यर्थः (मद्यम्) आनन्दजनकम् (मदम्) तृप्तिप्रदं ज्ञानरसम् (अभि पवन्ते) शिष्यान् प्रति अभिस्रावयन्ति ॥१॥
Essence
विद्यार्थिजनाः सुयोग्यानां गुरूणां सकाशादमृतवर्षिणं ज्ञानरसमधिगम्य स्नातका भूत्वाऽन्येभ्यस्तं तृप्तिप्रदं ज्ञानरसं पाययन्तु ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५१८ क्रमाङ्के पीतानन्दरसानां मनुष्याणां विषये व्याख्याता। अत्र ज्ञानिनां गुरूणां विषय उच्यते।
Footnote
१. ऋ० ९।१०७।१४ ‘विष्टपे’ ‘मदच्युतः’ इत्यत्र क्रमेण ‘वि॒ष्टपि॑’ ‘स्व॒र्विदः॑’ इति पाठः। साम० ५१८।