Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 855

1875 Mantra
Devata- इन्द्राग्नी Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ह꣣थो꣢ वृ꣣त्रा꣡ण्यार्या꣢꣯ ह꣣थो꣡ दासा꣢꣯नि सत्पती । ह꣣थो꣢꣫ विश्वा꣣ अ꣢प꣣ द्वि꣡षः꣢ ॥८५५॥

ह꣣थः꣢ । वृ꣣त्रा꣡णि꣢ । आ꣡र्या꣢꣯ । ह꣣थः꣢ । दा꣡सा꣢꣯नि । स꣣त्पती । सत् । पतीइ꣡ति꣢ । ह꣡थः꣢ । वि꣡श्वा꣢꣯ । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ ॥८५५॥

Mantra without Swara
हथो वृत्राण्यार्या हथो दासानि सत्पती । हथो विश्वा अप द्विषः ॥

हथः । वृत्राणि । आर्या । हथः । दासानि । सत्पती । सत् । पतीइति । हथः । विश्वा । अप । द्विषः ॥८५५॥

Samveda - Mantra Number : 855
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सत्पती) सतां श्रेष्ठानां पालकौ परमात्मजीवात्मानौ ! (आर्या) आर्यौ श्रेष्ठौ युवाम् (वृत्राणि) पापानि (हथः) विनाशयथः, (दासानि) उपक्षपयितॄणि कामक्रोधादीनि (हथः) विनाशयथः, अपि च (विश्वाः) सर्वाः (द्विषः) द्वेषवृत्तीः (अप हथः) अप विनाशयथः ॥३॥२ अत्र ‘हथो’ इत्यस्य त्रिधाऽऽवृत्तौ लाटानुप्रासः। पुनः पुनः ‘हथः’ इति वचनादन्यान्यपि दुर्गुणदुर्व्यसनदुःखादीन्यपहथः इति द्योत्यते ॥३॥
Essence
परमात्मजीवात्मनोः साहाय्येनास्माभिः पापादीनि निरस्य द्वेषवृत्तीः समाप्य परस्परं सौहार्देन वर्त्तितव्यम् ॥३॥ अस्मिन् खण्डे परमात्मयज्ञयोर्ब्रह्मक्षत्रयोर्जीवात्मप्राणयोर्जीवस्य पुनर्जन्मनः प्राणायामस्य परमात्मजीवात्मनोः सम्बन्धादेश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति ॥
Subject
अथ पुनरपि तमेव विषयं प्राह।
Footnote
१. ऋ० ६।६०।६। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतम् वायुविद्युद्विषये व्याख्यातवान्।