Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 854

1875 Mantra
Devata- इन्द्राग्नी Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣣ग्रा꣡ वि꣢घ꣣नि꣢ना꣣ मृ꣡ध꣢ इन्द्रा꣣ग्नी꣡ ह꣢वामहे । ता꣡ नो꣢ मृडात ई꣣दृ꣡शे꣢ ॥८५४॥

उग्रा꣢ । वि꣣घनि꣡ना꣢ । वि꣣ । घनि꣡ना꣢ । मृ꣡धः꣢꣯ । इ꣡न्द्राग्नी꣢ । इ꣡न्द्र । अग्नी꣡इति꣢ । ह꣣वामहे । ता꣢ । नः꣣ । मृडातः । ईदृ꣡शे꣢ ॥८५४॥

Mantra without Swara
उग्रा विघनिना मृध इन्द्राग्नी हवामहे । ता नो मृडात ईदृशे ॥

उग्रा । विघनिना । वि । घनिना । मृधः । इन्द्राग्नी । इन्द्र । अग्नीइति । हवामहे । ता । नः । मृडातः । ईदृशे ॥८५४॥

Samveda - Mantra Number : 854
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मृधः) हिंसकान् कामक्रोधादीन् रिपून् (विघनिना) हन्तारौ, (उग्रा) उग्रौ उद्गूर्णबलौ (इन्द्राग्नी) परमात्मजीवात्मानौ, वयम् (हवामहे) आह्वयामः। (ता) तौ (ईदृशे) एवंविधे संग्रामे उपस्थिते (नः) अस्मान् (मृडातः) सुखयेताम्। [मृड सुखने, तुदादिः, लेटि आडागमे रूपम्] ॥२॥३
Essence
परमात्मानमुपास्य जीवात्मानं चोद्बोध्य सर्वैः सर्वे विघ्नाः सर्वे शत्रवश्च पराजेयाः ॥२॥
Subject
अथ पुनः परमात्मजीवात्मनोरेव विषय उच्यते।
Footnote
२. ऋ० ६।६०।५, य० ३३।६१। ३. दयानन्दर्षिणा मन्त्रोऽयमृग्भाष्ये वायुविद्युतोः प्रयोगेण संग्रामजयविषये यजुर्भाष्ये च सभासेनाधीशविषये व्याख्यातः।