Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 853

1875 Mantra
Devata- इन्द्राग्नी Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ता꣡ हु꣢वे꣣ य꣡यो꣢रि꣣दं꣢ प꣣प्ने꣡ विश्वं꣢꣯ पु꣣रा꣢ कृ꣣त꣢म् । इ꣣न्द्राग्नी꣡ न म꣢꣯र्धतः ॥८५३॥

ता꣢ । हु꣣वे । य꣡योः꣢꣯ । इ꣡द꣢म् । प꣣प्ने꣢ । वि꣡श्व꣢꣯म् । पु꣣रा꣢ । कृ꣣त꣢म् । इ꣣न्द्रा꣢ग्नी । इ꣣न्द्र । अग्नी꣡इति꣢ । न । म꣣र्धतः ॥८५३॥

Mantra without Swara
ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम् । इन्द्राग्नी न मर्धतः ॥

ता । हुवे । ययोः । इदम् । पप्ने । विश्वम् । पुरा । कृतम् । इन्द्राग्नी । इन्द्र । अग्नीइति । न । मर्धतः ॥८५३॥

Samveda - Mantra Number : 853
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अहम् (ता) तौ इन्द्राग्नी परमात्मजीवात्मानौ (हुवे) आह्वयामि (ययोः) परमात्मजीवात्मनोः (इदम्) एतत् पुरतोऽवलोक्यमानम् (पुरा) प्राक्काले (कृतम्) संपादितम् (विश्वम्) समस्तं कार्यम् (पप्ने) सर्वैः स्तूयते। [पनायते स्तुतिकर्मा, भ्वादिः।] (इन्द्राग्नी) उपासितः परमात्मा उद्बोधितो जीवात्मा च, तौ उभौ (न मर्धतः) कदापि न हिंस्तः, हानिं न कुरुतः प्रत्युत सदा लाभकरौ भवतः [मर्धतिः हिंसाकर्मा] ॥१॥२
Essence
परमात्मना यद् ब्रह्माण्डं रचितं जीवात्मा च देहं धृत्वा यानि महान्ति कार्याणि स्वबुद्धिकौशलेन सम्पादयति तैस्तयोर्महद् गौरवं द्योत्यते ॥१॥
Subject
तत्रादौ परमात्मजीवात्मविषयमाह।
Footnote
१. ऋ० ६।६०।४। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं वायुविद्युत्पक्षे व्याख्यातः।