Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 852

1875 Mantra
Devata- मरुत इन्द्रश्च Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वी꣣डु꣡ चि꣢दारुज꣣त्नुभि꣣र्गु꣡हा꣢ चिदिन्द्र꣣ व꣡ह्नि꣢भिः । अ꣡वि꣢न्द उ꣣स्रि꣢या꣣ अ꣡नु꣢ ॥८५२॥

वी꣣डु꣢ । चि꣣त् । आरुजत्नु꣡भिः꣢ । आ꣣ । रुजत्नु꣡भिः꣢ । गु꣡हा꣢꣯ । चि꣡त् । इन्द्र । व꣡ह्नि꣢꣯भिः । अ꣡वि꣢꣯न्दः । उ꣣स्रि꣡याः꣢ । उ꣣ । स्रि꣡याः꣢꣯ । अ꣡नु꣢꣯ ॥८५२॥

Mantra without Swara
वीडु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः । अविन्द उस्रिया अनु ॥

वीडु । चित् । आरुजत्नुभिः । आ । रुजत्नुभिः । गुहा । चित् । इन्द्र । वह्निभिः । अविन्दः । उस्रियाः । उ । स्रियाः । अनु ॥८५२॥

Samveda - Mantra Number : 852
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जीवात्मन् ! त्वम् (वीडु चित्) दृढमपि व्याधिस्त्यानसंशयप्रमादालस्यादिविघ्नजातम् (आरुजद्भिः) समन्ताद् भञ्जद्भिः (वह्निभिः) वाहकैः मरुद्भिः प्राणैः, तेषां सहयोगेनेत्यर्थः (गुहा चित्) गुहायामपि विद्यमानाः, विघ्नैनिर्गूढा अपि इति यावत् (उस्रियाः) परमात्मनः सकाशादागच्छतः तेजोरश्मीन्२ (अनु अविन्दः) अनुक्रमेण प्राप्नोषि ॥३॥३
Essence
यथा सूर्यकिरणान् मेघ आवृणोति तथैव परमात्मसूर्यस्य सकाशादागच्छतः तेजःकिरणान् योगमार्गे समुपस्थिता विघ्ना आवृण्वन्ति। प्राणायामस्य साहाय्येन ते विघ्नाः पराभवितुं शक्यन्ते ॥३॥४
Subject
अथ योगमार्गे प्राणायामस्य महत्त्वमाह।
Footnote
१. ऋ० १।६।५, अथ० २०।७०।१। २. उस्रियाः इति गोनामसु पठितम्। निघं २।११, गोनामनि प्रायेण रश्मिनामान्यपि भवन्ति। ३. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं भौतिकसूर्यवायुपक्षे व्याख्यातः। ४. द्रष्टव्यम् योग० १।३०-३४।