Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 851

1875 Mantra
Devata- मरुतः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣡दह꣢꣯ स्व꣣धा꣢꣫मनु꣣ पु꣡न꣢र्गर्भ꣣त्व꣡मे꣢रि꣣रे꣢ । द꣡धा꣢ना꣣ ना꣡म꣢ य꣣ज्ञि꣡य꣢म् ॥८५१॥

आ꣢त् । अ꣡ह꣢꣯ । स्व꣣धा꣢म् । स्व꣣ । धा꣢म् । अ꣡नु꣢꣯ । पु꣡नः꣢꣯ । ग꣣र्भत्व꣢म् । ए꣣रिरे꣢ । आ꣣ । इरिरे꣢ । द꣡धा꣢꣯नाः । ना꣡म꣢꣯ । य꣣ज्ञि꣡य꣢म् ॥८५१॥

Mantra without Swara
आदह स्वधामनु पुनर्गर्भत्वमेरिरे । दधाना नाम यज्ञियम् ॥

आत् । अह । स्वधाम् । स्व । धाम् । अनु । पुनः । गर्भत्वम् । एरिरे । आ । इरिरे । दधानाः । नाम । यज्ञियम् ॥८५१॥

Samveda - Mantra Number : 851
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(आत् अह) देहत्यागानन्तरं खलु, सूक्ष्मशरीरसमाविष्टा एते मरुतः प्राणाः पूर्वजन्मकृतकर्मसंस्कारानुसारम् (स्वधाम् अनु) भोगम् अनुलक्ष्य, इन्द्रेण जीवात्मना सहचारिताः (यज्ञियम्) देहयज्ञसंचालनार्हम्। [यज्ञमर्हति इति यज्ञियः, ‘यज्ञर्त्विग्भ्यां घखञौ। अ० ५।१।७१’ इति घः प्रत्ययः।] (नाम) कर्म (दधानाः) धारयन्तः (पुनः) पुर्वजन्मवत् भूयोऽपि (गर्भत्वम्) मातुर्गर्भे स्थितिम् (एरिरे) प्राप्नुवन्ति। [आङ्पूर्वः ईर गतौ कम्पने च अदादिः, लिटि रूपम्] ॥२॥२
Essence
पञ्च प्राणाः, पञ्च ज्ञानेन्द्रियाणि, पञ्च सूक्ष्मभूतानि, मनो बुद्धिश्चेति सप्तदशलिङ्गकं सूक्ष्मशरीरं जीवात्मना सह मृत्योरनन्तरमपि तिष्ठति। पूर्वजन्मकर्मसंस्कारानुसारेण फलानि भोक्तुं सूक्ष्मशरीरेण सह जीवात्मा पुनर्जन्म ग्रहीतुं मातुर्गर्भं प्रविशति ॥२॥
Subject
अथ जीवात्मनः पुनर्जन्मविषयमाह।
Footnote
१. ऋ० १।६।४, अथ–० २०।४०।३, ६९।१२ सर्वत्र देवताः मरुतः।