Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 85

1875 Mantra
Devata- अग्निः Rishi- द्वितो मृक्तवाहा आत्रेयः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
प्रा꣣त꣢र꣣ग्निः꣡ पु꣢रुप्रि꣣यो꣢ वि꣣श꣡ स्त꣢वे꣣ता꣡ति꣢थिः । वि꣢श्वे꣣ य꣢स्मि꣣न्न꣡म꣢र्त्ये ह꣣व्यं꣡ मर्ता꣢꣯स इ꣣न्ध꣡ते꣢ ॥८५॥

प्रा꣣तः꣢ । अ꣣ग्निः꣢ । पु꣣रुप्रियः꣢ । पु꣣रु । प्रियः꣢ । वि꣣शः꣢ । स्त꣣वेत । अ꣡ति꣢꣯थिः । वि꣡श्वे꣢꣯ । य꣡स्मि꣢꣯न् । अ꣡म꣢꣯र्त्ये । अ । म꣣र्त्ये । ह꣣व्य꣢म् । म꣡र्ता꣢꣯सः । इ꣣न्ध꣡ते꣢ ॥८५॥

Mantra without Swara
प्रातरग्निः पुरुप्रियो विश स्तवेतातिथिः । विश्वे यस्मिन्नमर्त्ये हव्यं मर्तास इन्धते ॥

प्रातः । अग्निः । पुरुप्रियः । पुरु । प्रियः । विशः । स्तवेत । अतिथिः । विश्वे । यस्मिन् । अमर्त्ये । अ । मर्त्ये । हव्यम् । मर्तासः । इन्धते ॥८५॥

Samveda - Mantra Number : 85
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(प्रातः) प्रभाते (पुरुप्रियः) बहुप्रियः। पुरु इति बहुनाम। निघं० ३।१। (अतिथिः) अतिथिवत् पूज्यः सन्मार्गप्रदर्शकश्च (अग्निः) अग्रणीः परमेश्वरः (विशः) अध्यात्मयाजिनीः प्रजाः (स्तवेत) स्तुयात्, साधु युष्माभिः क्रियते इति साधुवादं प्रयच्छेत्, यथायोग्यं समुपदिशेद् वा। ष्टुञ् स्तुतौ धातोरदादेर्भ्वादिसदृशान्यपि रूपाणि वेदेषु बाहुल्येन दृश्यन्ते, तेन शपो लुगभावे लिङि रूपम्। (अमर्त्ये) अमरणशीले (यस्मिन्) परमात्माग्नौ (विश्वे) सर्वे (मर्तासः) मरणधर्माणो मनुष्याः (हव्यम्) स्वकीयम् आत्मरूपं हविः (इन्धते) हुत्वा प्रदीपयन्ति ॥५॥२
Essence
यथा गृहागतं विद्वांसमतिथिं ये जना देयवस्तुभिः सत्कुर्वन्ति तान् स वेदादिशास्त्राण्युपदिशति, तथैवातिथिवत् पूज्यं परमात्मानं प्रति ये जनाः श्रद्धयाऽत्मसमर्पणं कुर्वन्ति तेभ्यः साधुवादम् आशीर्वादं च प्रयच्छन्नसौ तान् सन्मार्गमुपदिशति ॥५॥
Subject
अथ परमात्मनोऽतिथिवदुपकारित्वमाह।
Footnote
१. ऋ० ५।१८।१, विश्वानि यो अमर्त्यो हव्या मर्त्येषु रण्यति इत्युत्तरार्द्धपाठः। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रस्यास्य ऋग्वेदीयः पाठो विद्वदतिथिपक्षे व्याख्यातः।