Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 849

1875 Mantra
Devata- मित्रावरुणौ Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
क꣣वी꣡ नो꣢ मि꣣त्रा꣡वरु꣢꣯णा तुविजा꣣ता꣡ उ꣢रु꣣क्ष꣡या꣢ । द꣡क्षं꣢ दधाते अ꣣प꣡स꣢म् ॥८४९॥

क꣣वी꣡इति꣢ । नः꣣ । मित्रा꣢ । मि꣣ । त्रा꣢ । व꣡रु꣢꣯णा । तु꣣विजातौ꣢ । तु꣣वि । जातौ꣢ । उ꣣रु꣡क्ष꣢या । उ꣣रु । क्ष꣡या꣢꣯ । द꣡क्ष꣢꣯म् । द꣣धातेइ꣡ति꣢ । अ꣣प꣡स꣢म् ॥८४९॥

Mantra without Swara
कवी नो मित्रावरुणा तुविजाता उरुक्षया । दक्षं दधाते अपसम् ॥

कवीइति । नः । मित्रा । मि । त्रा । वरुणा । तुविजातौ । तुवि । जातौ । उरुक्षया । उरु । क्षया । दक्षम् । दधातेइति । अपसम् ॥८४९॥

Samveda - Mantra Number : 849
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(कवी) क्रान्तदर्शिनौ, मेधाविनौ, (तुविजाता) बहुप्रसिद्धौ, (उरुक्षया) विशालनिवासप्रदौ। [उरुः क्षयो निवासो ययोः तौ। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ‘परादिश्छन्दसि बहुलम्’। अ० ६।२।१९९ इति परादिरुदात्तः।] (मित्रावरुणौ) ब्राह्मणक्षत्रियौ (नः) अस्माकम् (दक्षम्) बलम् (अपसम्) कर्म च [अपः इति कर्मनाम। निघं० २।१।] (दधाते) पुष्णीतः ॥३॥२
Essence
राष्ट्रवासिनां बलं कर्म सुरक्षितनिवासश्च ब्रह्मक्षत्रयोः समन्वयेनैव सम्यक् सिध्यति ॥३॥
Subject
अथ पुनरपि ब्रह्मक्षत्रविषय एवोच्यते।
Footnote
१. ऋ० १।२।९। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सूर्यवाय्वोः प्राणापानयोश्च विषये व्याख्यातः।