Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 848

1875 Mantra
Devata- मित्रावरुणौ Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ऋ꣣ते꣡न꣢ मित्रावरुणावृतावृधावृतस्पृशा । क्र꣡तुं꣢ बृ꣣ह꣡न्त꣢माशाथे ॥८४८॥

ऋ꣣ते꣡न꣢ । मि꣣त्रा । मि । त्रा । वरुणौ । ऋतावृधौ । ऋत । वृधौ । ऋतस्पृशा । ऋत । स्पृशा । क्र꣡तु꣢꣯म् । बृ꣣ह꣡न्त꣢म् । आ꣣शाथेइ꣡ति꣢ ॥८४८॥

Mantra without Swara
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा । क्रतुं बृहन्तमाशाथे ॥

ऋतेन । मित्रा । मि । त्रा । वरुणौ । ऋतावृधौ । ऋत । वृधौ । ऋतस्पृशा । ऋत । स्पृशा । क्रतुम् । बृहन्तम् । आशाथेइति ॥८४८॥

Samveda - Mantra Number : 848
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (ऋतस्पृशा) ऋतं सत्यं ज्ञानं सत्यं कर्म च स्पृशतः प्राप्नुतः यौ तौ, (ऋतावृधा) ऋतं सत्यं ज्ञानं सत्यं कर्म च वर्धयतः यौ तौ। [पूर्वपदान्तस्य दीर्घश्छान्दसः। सुपां सुलुक्० अ० ७।१।३९ इति विभक्तेराकारादेशः] (मित्रावरुणौ) ब्राह्मणक्षत्रियौ। युवाम् (ऋतेन) सत्यज्ञानेन सत्यकर्मणा च (बृहन्तम्) विशालम् (क्रतुम्) राष्ट्रयज्ञम् (आशाथे) आनशाथे व्याप्नुतः। [अशू व्याप्तौ संघाते च। छन्दसि लुङ्लङ्लिटः। अ० ३।४।६ इति वर्तमाने लिट्। वा छन्दसि सर्वे विधयो भवन्तीति नुडभावः] ॥२॥२
Essence
ब्राह्मणाः क्षत्रियाश्च सत्यं ज्ञानं सत्यं कर्म च स्वयमुपादायान्यांश्च शिक्षयित्वा राष्ट्रोन्नयनयज्ञं निर्वहतः ॥२॥
Subject
अथ पुनर्ब्रह्मक्षत्रविषयमाह।
Footnote
१. ऋ० १।२।८। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सूर्यवाय्वोः प्राणापानयोश्च विषये व्याख्यातः ॥