Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 847

1875 Mantra
Devata- मित्रावरुणौ Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
मि꣣त्र꣡ꣳ हु꣢वे पू꣣त꣡द꣢क्षं꣣ व꣡रु꣢णं च रि꣣शा꣡द꣢सम् । धि꣡यं꣢ घृ꣣ता꣢ची꣣ꣳ सा꣡ध꣢न्ता ॥८४७॥

मि꣣त्र꣢म् । मि꣣ । त्र꣢म् । हु꣣वे । पूत꣡द꣢क्षम् । पू꣣त꣢ । द꣣क्षम् । व꣡रु꣢꣯णम् । च꣣ । रिशा꣡द꣢सम् । धि꣡य꣢꣯म् । घृ꣣ता꣡ची꣢म् । सा꣡ध꣢꣯न्ता ॥८४७॥

Mantra without Swara
मित्रꣳ हुवे पूतदक्षं वरुणं च रिशादसम् । धियं घृताचीꣳ साधन्ता ॥

मित्रम् । मि । त्रम् । हुवे । पूतदक्षम् । पूत । दक्षम् । वरुणम् । च । रिशादसम् । धियम् । घृताचीम् । साधन्ता ॥८४७॥

Samveda - Mantra Number : 847
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अहम् (पूतदक्षम्) पूतः पवित्रः दक्षः बलं यस्य यस्माद् वा सः पूतदक्षः तम् (मित्रम्) सर्वमित्रं ब्राह्मणम्, (रिशादसम्) रिशन्ति हिंसन्ति ये ते रिशाः तान् हिंसकान् शत्रून् दस्यति नाशयति यः सः रिशादसः तम्। [रिश हिंसायाम्, दसु उपक्षये। ‘शा’ इत्यत्र दीर्घश्छान्दसः। रिशादसः रेशयदासिनः इति निरुक्तम् ६।१४।] (वरुणं च) शत्रुवारकं क्षत्रियं च (हुवे) आह्वयामि। तौ (घृताचीम्) राष्ट्रस्य तेजःप्रापयित्रीम्। [घृतं तेजः अञ्चति प्रापयतीति तम्। घृ क्षरणदीप्त्योः, अञ्चू गतौ।] (धियम्) ज्ञानशृङ्खलां कर्मशृङ्खलां च। [धीः इति कर्मनाम प्रज्ञानाम च। निघं० २।१, –३।९।] (साधन्ता) साधन्तौ, संसाधयन्तौ भवतः इति शेषः। [ब्रह्मैव मित्रः, क्षत्रं वरुणः। श० ४।१।४।१] ॥१॥२
Essence
राष्ट्रे ब्राह्मणाः पवित्रं ज्ञानविज्ञानबलं वर्धयन्ति क्षत्रियाश्च शत्रुभ्यो राष्ट्रं रक्षन्तीत्युन्नतिकामैरुभये सदा सत्कर्तव्याः पोषणीयाश्च ॥१॥
Subject
तत्रादौ ब्रह्मक्षत्रे आह्वयति।
Footnote
१. ऋ० १।२।७, य० ३३।५७। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये सूर्यवाय्वोः प्राणापानयोश्च विषये, यजुर्भाष्ये च विद्वद्विषये व्याख्यातवान्।