Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 846

1875 Mantra
Devata- अग्निः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
यो꣢ अ꣣ग्निं꣢ दे꣣व꣡वी꣣तये ह꣣वि꣡ष्मा꣢ꣳ आ꣣वि꣡वा꣢सति । त꣡स्मै꣢ पावक मृडय ॥८४६॥

यः꣢ । अ꣣ग्नि꣢म् । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣡तये । हवि꣡ष्मा꣢न् । आ꣣वि꣡वा꣢सति । आ꣣ । वि꣡वा꣢꣯सति । त꣡स्मै꣢꣯ । पा꣣वक । मृडय ॥८४६॥

Mantra without Swara
यो अग्निं देववीतये हविष्माꣳ आविवासति । तस्मै पावक मृडय ॥

यः । अग्निम् । देववीतये । देव । वीतये । हविष्मान् । आविवासति । आ । विवासति । तस्मै । पावक । मृडय ॥८४६॥

Samveda - Mantra Number : 846
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। (यः हविष्मान्) आत्मसमर्पणवान् उपासको जनः (देववीतये) दिव्यगुणकर्मणां प्राप्तये (अग्निम्) सर्वसुखप्रापकं परमात्मानं त्वाम् (आविवासति) परिचरति। [विवासतिः परिचरणकर्मा। निघं० ३।५।] (तस्मै) तम् उपासकम्। [अत्र कर्मणि चतुर्थी।] हे (पावक) पवित्रतासम्पादक परमात्मन् ! त्वम् (मृडय सुखय) ॥ द्वितीयः—यज्ञपरः। (यः हविष्मान्) उत्तमानि होतुं योग्यानि द्रव्याणि विद्यन्ते यस्य सः याज्ञिको जनः (देववीतये) तेजःप्राप्तये दिव्यसुखसम्पादनाय वा (अग्निम्) यज्ञवह्निं त्वाम् (आ विवासति) होमेन सत्करोति (तस्मै) तम्, हे (पावक) वायुशुद्धेः हृदयशुद्धेश्च सम्पादक यज्ञवह्ने ! त्वम् (मृडय) आरोग्यादिप्रापणेन सुखय। पावकोऽग्निः सुखयतु इति तात्पर्यम् ॥३॥२ अत्र श्लेषालङ्कारः ॥३॥
Essence
यथा श्रद्धयाऽऽत्मसमर्पणेनोपासितः परमेश्वरो दिव्यगुणकर्माणि प्रेरयति तथोत्तमोत्तमहव्यद्रव्यैर्हुतो यज्ञवह्निरारोग्यप्रदानेन हृदि तेजःशौर्यादिदिव्यगुणानां समेधनेन च सुखयति ॥३॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० १।१२।९। २. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रोऽयं श्लेषेण परमेश्वरविषये भौतिकाग्निविषये च व्याख्यातः।