Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 845

1875 Mantra
Devata- अग्निः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣡स्त्वाम꣢꣯ग्ने ह꣣वि꣡ष्प꣢तिर्दू꣣तं꣡ दे꣢व सप꣣र्य꣡ति꣢ । त꣡स्य꣢ स्म प्रावि꣣ता꣡ भ꣢व ॥८४५॥

यः꣢ । त्वाम् । अ꣣ग्ने । हवि꣡ष्प꣢तिः । ह꣣विः꣢ । प꣣तिः । दूत꣢म् । दे꣣व । सपर्य꣡ति꣢ । त꣡स्य꣢꣯ । स्म꣣ । प्राविता꣢ । प्र꣣ । आविता꣣ । भव ॥८४५॥

Mantra without Swara
यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति । तस्य स्म प्राविता भव ॥

यः । त्वाम् । अग्ने । हविष्पतिः । हविः । पतिः । दूतम् । देव । सपर्यति । तस्य । स्म । प्राविता । प्र । आविता । भव ॥८४५॥

Samveda - Mantra Number : 845
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (देव) स्वतः प्रकाशमान, सर्वप्रकाशक, दानादिगुणयुक्त, सर्वान्तर्यामिन् (अग्ने) अग्रणीः जगदीश्वर ! (यः हविष्पतिः) हविषां पतिः स्वामी, आत्मानं हविष्कृत्वा तवोपासको जनः (दूतम्) दुर्गुणदुर्व्यसनदुःखादीनाम् उपतापकम्। [यो दुनोति उपतपति स दूतः। ‘दुतनिभ्यां दीर्घश्च उ० ३।९०’ इत्यनेन टुदु उपतापे इति धातोः क्त प्रत्ययो धातोर्दीर्घश्च।] (त्वा) त्वां परमात्मानम् (सपर्यति) उपास्ते (तस्य) उपासकस्य, त्वम् (प्राविता) प्रकर्षेण रक्षकः (भव स्म) जायस्व। [स्म इति अवश्यार्थे स्पष्टार्थे वा] ॥ द्वितीयः—यज्ञपरः। हे (देव) प्रकाशमान प्रकाशक (अग्ने) गतिमयज्वाल यज्ञवह्न ! (यः हविष्पतिः) हविषां होतुं योग्यानां सुगन्धिमिष्टपुष्ट्यारोग्यकराणां द्रव्याणां पतिः स्वामी याज्ञिको जनः (दूतम्) रोगाऽऽलस्यादीनामुपतापकम् (त्वा) त्वां यज्ञवह्निम् (सपर्यति) यज्ञानुष्ठानेन परिचरति (तस्य) याज्ञिकजनस्य, त्वम् (प्राविता) प्रकर्षेण रक्षकः (भव स्म) जायस्व ॥२॥२ अत्र श्लेषालङ्कारः ॥२॥
Essence
यथोपासितः परमेश्वर उपासकस्य दुर्गुणादीनि दग्ध्वा तं सन्मार्गे प्रवर्त्य रक्षति, तथैवारोग्यादिकरैर्द्रव्यैर्हुतो यज्ञवह्निर्यजमानमारोग्यादिप्रापणेन बहूपकरोति ॥२॥
Subject
अथ पुनरपि परमात्मयज्ञयोर्विषयो वर्ण्यते।
Footnote
१. ऋ० १।१२।८। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं परमेश्वरपक्षे यानयन्त्रादिषु भौतिकाग्निप्रयोगविषये च व्याख्यातवान् ॥