Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 844

1875 Mantra
Devata- अग्निः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣ग्नि꣢ना꣣ग्निः꣡ समि꣢꣯ध्यते क꣣वि꣢र्गृ꣣ह꣡प꣢ति꣣र्यु꣡वा꣢ । ह꣣व्यवा꣢ड्जु꣣꣬ह्वा꣢꣯स्यः ॥८४४॥

अ꣣ग्नि꣡ना꣢ । अ꣣ग्निः꣢ । सम् । इ꣣ध्यते । कविः꣢ । गृ꣣ह꣢प꣢तिः । गृ꣣ह꣢ । प꣣तिः । यु꣡वा꣢꣯ । ह꣣व्य꣢वाट् । ह꣣व्य । वा꣢ट् । जु꣣ह्वा꣢स्यः । जु꣣हू꣢ । आ꣣स्यः ॥८४४॥

Mantra without Swara
अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा । हव्यवाड्जुह्वास्यः ॥

अग्निना । अग्निः । सम् । इध्यते । कविः । गृहपतिः । गृह । पतिः । युवा । हव्यवाट् । हव्य । वाट् । जुह्वास्यः । जुहू । आस्यः ॥८४४॥

Samveda - Mantra Number : 844
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। (अग्निना) नायकेन जीवात्मना (अग्निः) नायकः परमात्मा (समिध्यते) हृदये प्रदीप्यते, यः परमात्मा (कविः क्रान्तद्रष्टा) मेधावी, (गृहपतिः) गृहाणां रक्षकः (युवा) नित्यतरुणः, तरुण इव अपारसामर्थ्यवान्, (हव्यवाट्) हव्यम् आत्मसमर्पणं वहति स्वीकरोतीति सः, यद्वा हव्यानि दातव्यानि वस्तूनि (वहति) प्रापयतीति सः, (जुह्वास्य) जुहूः वेदवागेव आस्यं मुखं यस्य सः, वर्तते ॥ द्वितीयः—यज्ञाग्निपरः। (अग्निना) आहिताग्निना यजमानेन (अग्निः) आहवनीयाग्निः (समिध्यते) प्रदीप्यते, यः आहवनीयाग्निः (कविः) गतिमयज्वालः। [कवते गतिकर्मा। निघं० २।१४।] (गृहपतिः) गृहाणां रक्षकः, (युवा) हुतस्य द्रव्यस्य विभाजकः। [यु मिश्रणामिश्रणयोः। यौति मिश्रयति अमिश्रयति वा यः सः। ‘कनिन् युवृषि’ उ० १।५६ इत्यनेन कनिन् प्रत्ययः।] (हव्यवाट्) हव्यं हुतं द्रव्यं वहति दाहेन सूक्ष्मीकृत्य स्थानान्तरं प्रापयतीति सः। [वहश्च। अ० ३।२।६४। इति ण्विप्रत्ययः।] (जुह्वास्यः) जुहूः घृतपूर्णा स्रुग् आस्ये ज्वालारूपे यस्य तादृशश्च वर्तते ॥१॥२ अत्र श्लेषालङ्कारः। प्रथमेऽर्थे च ‘जुह्वास्यः’ इत्यत्र रूपकम् ॥१॥
Essence
यथाऽऽत्माग्निः परमात्माग्निं समेध्य तत्तेजसा पूर्वतोऽप्यधिकं दीप्तः सन्नुत्कर्षं धत्ते, तथा मनुष्यो यज्ञाग्निं प्रदीप्य तत्र होमकरणेन वायुशुद्धिं कृत्वाऽऽरोग्यं प्राप्याऽग्निवत् तेजस्वी च भूत्वा स्वात्मानमुन्नयति ॥१॥
Subject
अथ परमात्मविषयं यज्ञविषयं चाह।
Footnote
१. ऋ० १।१२।६। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमम्—“अग्निना व्यापकेन विद्युदाख्येन अग्निः प्रसिद्धो रूपवान् दहनशीलः पृथिवीरथः सूर्यलोकस्थश्च समिध्यते सम्यक् प्रदीप्यते” इत्यादिरूपेण भौतिकपक्षे व्याख्यातवान्।