Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 842

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
पु꣣नानो꣡ वरि꣢꣯वस्कृ꣣ध्यू꣢र्जं꣣ ज꣡ना꣢य गिर्वणः । ह꣡रे꣢ सृजा꣣न꣢ आ꣣शि꣡र꣢म् ॥८४२॥

पु꣣नानः꣢ । व꣡रि꣢꣯वः । कृ꣣धि । ऊ꣡र्ज꣢꣯म् । ज꣡ना꣢꣯य । गि꣣र्वणः । गिः । वनः । ह꣡रे꣢꣯ । सृ꣣जा꣢नः । आ꣣शि꣡र꣢म् । आ꣣ । शि꣡र꣢꣯म् ॥८४२॥

Mantra without Swara
पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः । हरे सृजान आशिरम् ॥

पुनानः । वरिवः । कृधि । ऊर्जम् । जनाय । गिर्वणः । गिः । वनः । हरे । सृजानः । आशिरम् । आ । शिरम् ॥८४२॥

Samveda - Mantra Number : 842
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (गिर्वणः) गीर्भ्यः वेदादिवाङ्मयेभ्यः वननीय सेवनीय, (हरे) दोषदुर्व्यसनदुःखादीनां हर्तः आचार्य ! (पुनानः) आचरणस्य पवित्रतामापादयन्, किञ्च (आशिरम्) परिपक्वं ज्ञानम्। [श्रीञ् पाके, आश्रीयते परिपच्यते इति आशीः।] (सृजानः) उत्पादयन् त्वम् (जनाय) शिष्यजनाय (वरिवः) धनम्। [वरिवः इति धननाम। निघं० २।१०।] (ऊर्जम्) शारीरं बलं प्राणवत्तां च (कृधि) कुरु ॥२॥
Essence
शास्त्राणामध्यापनं, चरित्रस्य पावनं, दोषाणां हरणं, व्यायामप्राणायामादिद्वारा बलप्राणयोः प्रदानमर्थकर्या विद्यायाः शिक्षणं च गुरूणां कर्त्तव्यमस्ति ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ९।६४।१४।