Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 841

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣣षे꣡ प꣢वस्व꣣ धा꣡र꣢या मृ꣣ज्य꣡मा꣢नो मनी꣣षि꣡भिः꣢ । इ꣡न्दो꣢ रु꣣चा꣡भि गा इ꣢हि꣢ ॥८४१॥

इ꣣षे꣢ । प꣣वस्व । धा꣡र꣢꣯या । मृ꣣ज्य꣡मा꣢नः । म꣣नीषि꣡भिः꣢ । इ꣡न्दो꣢꣯ । रु꣣चा꣢ । अ꣣भि꣢ । गाः । इ꣣हि ॥८४१॥

Mantra without Swara
इषे पवस्व धारया मृज्यमानो मनीषिभिः । इन्दो रुचाभि गा इहि ॥

इषे । पवस्व । धारया । मृज्यमानः । मनीषिभिः । इन्दो । रुचा । अभि । गाः । इहि ॥८४१॥

Samveda - Mantra Number : 841
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) तेजस्विन् विद्यानिधे आचार्य ! त्वम् (मनीषिभिः) चिन्तनशीलैः शिष्यैः (मृज्यमानः) नमोवाग्भिः अलङ्क्रियमाणः सन् (इषे) इच्छासिद्धये (धारया) विद्याधारया (पवस्व) शिष्यान् पुनीहि। त्वम् (रुचा) दीप्त्या सह (गाः अभि) स्तोतॄन् शिष्यान् प्रति (इहि) गच्छ ॥१॥
Essence
शिष्याः समर्पणभावेन गुरून् प्रति गच्छन्तु, गुरवश्च निश्छलेन मनसा शिष्यानुपगम्य सकला विद्याः प्रयच्छन्तु ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५०५ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र गुरुशिष्यविषयः प्रदर्श्यते।
Footnote
१. ऋ० ९।६४।१३, साम० ५०५।