Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 840

1875 Mantra
Devata- पवमानः सोमः Rishi- कविर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वि꣡श्व꣢स्मा꣣ इ꣡त्स्व꣢र्दृ꣣शे꣡ साधा꣢꣯रणꣳ रज꣣स्तु꣡र꣢म् । गो꣣पा꣢मृ꣣त꣢स्य꣣ वि꣡र्भ꣢रत् ॥८४०॥

वि꣡श्व꣢꣯स्मै । इत् । स्वः꣢ । दृ꣣शे꣢ । सा꣡धा꣢꣯रणम् । र꣣जस्तु꣡र꣢म् । गो꣣पा꣢म् । गो꣣ । पा꣢म् । ऋ꣣त꣡स्य꣢ । विः । भ꣣रत् ॥८४०॥

Mantra without Swara
विश्वस्मा इत्स्वर्दृशे साधारणꣳ रजस्तुरम् । गोपामृतस्य विर्भरत् ॥

विश्वस्मै । इत् । स्वः । दृशे । साधारणम् । रजस्तुरम् । गोपाम् । गो । पाम् । ऋतस्य । विः । भरत् ॥८४०॥

Samveda - Mantra Number : 840
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विश्वस्मै इत्) सर्वस्मै एव (स्वः) सुखस्य (दृशे) दर्शनाय (साधारणम्) अविशेषम्, कृतकर्मानुरूपं सर्वस्मै एव पात्रभूताय जनाय निष्पक्षपातं सुखं दर्शयन्तमिति भावः, (रजस्तुरम्) रजसा रजोगुणेन त्वरयति क्रियां कारयतीति रजस्तूः तम्, (ऋतस्य) सत्यस्य (गोपाम्) रक्षकम् पवमानं सोमं पावकं जगत्स्रष्टारं परमात्मानम् (विः) गतिशीलो जीवात्मा (भरत्) स्वान्तःकरणे बिभृयात्। [डुभृञ् धारणपोषणयोः, लेटि रूपम्] ॥५॥
Essence
परमात्मा सत्यस्यैव रक्षकोऽस्ति। नासत्यस्य। तस्य न्याये विश्वस्य सर्वैः सत्कर्माण्येव कर्तव्यानि ॥५॥
Subject
अथ पुनरपि परमात्मविषयमाह।
Footnote
२. ऋ० ९।४८।४।