Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 839

1875 Mantra
Devata- पवमानः सोमः Rishi- कविर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡धा꣢ हिन्वा꣣न꣡ इ꣢न्द्रि꣣यं꣡ ज्यायो꣢꣯ महि꣣त्व꣡मा꣢नशे । अ꣣भिष्टिकृ꣡द्विच꣢꣯र्षणिः ॥८३९॥

अ꣡ध꣢꣯ । हि꣡न्वानः꣢ । इ꣣न्द्रिय꣢म् । ज्या꣡यः꣢꣯ । म꣣हित्व꣢म् । आ꣣नशे । अभिष्टिकृ꣢त् । अ꣣भिष्टि । कृ꣢त् । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः ॥८३९॥

Mantra without Swara
अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे । अभिष्टिकृद्विचर्षणिः ॥

अध । हिन्वानः । इन्द्रियम् । ज्यायः । महित्वम् । आनशे । अभिष्टिकृत् । अभिष्टि । कृत् । विचर्षणिः । वि । चर्षणिः ॥८३९॥

Samveda - Mantra Number : 839
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अध) अथ, स पवमानः सोमः पवित्रतादायकः जगत्स्रष्टा परमात्मा (इन्द्रियम्) चक्षुरादि इन्द्रियम् आत्मबलं वा। [इन्द्रस्य आत्मनः लिङ्गम्, इन्द्रेण आत्मना जुष्टं वा इन्द्रियम्। ‘इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्ट०। अ० ५।२।९३’ इत्यनेन घच्प्रत्ययान्तो निपातः।] (हिन्वानः) प्रीणयन् प्रेरयन्। [हिवि प्रीणनार्थः। यद्वा हि गतौ वृद्धौ च स्वादिः। आत्मनेपदं छान्दसम्।] (ज्यायः) अतिप्रशस्तम् (महित्वम्) महत्त्वम् (आनशे) प्राप्नोति। स एव (अभिष्टिकृत्) अभीष्टप्रदः। [अभिपूर्वाद् इषु इच्छायाम् इति धातोः क्तिनि अभीष्टि इति प्राप्ते ‘एमन्नादिषु छन्दसि पररूपं वाच्यम्’ इति वार्तिकेन पररूपम्।] (विचर्षणिः) विशेषेण सर्वेषां साक्षाद् द्रष्टा च अस्ति। [विचर्षणिः पश्यतिकर्मा। निघं० ३।११] ॥४॥
Essence
यो मनश्चक्षुःश्रोत्रादिषु मननदर्शनश्रवणादिसामर्थ्यमात्मनि च बलं निदधाति तस्य कामपूरकस्य विश्वद्रष्टुः परमात्मनो महत्त्वं सर्वैर्ज्ञातव्यम् ॥४॥
Subject
अथ परमात्मविषयमाह।
Footnote
१. ऋ० ९।४८।५।