Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 837

1875 Mantra
Devata- पवमानः सोमः Rishi- कविर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
सं꣡वृ꣢क्तधृष्णु꣣꣬मुक्थ्यं꣢꣯ म꣣हा꣡म꣢हिव्रतं꣣ म꣡द꣢म् । श꣣तं꣡ पुरो꣢꣯ रुरु꣣क्ष꣡णि꣢म् ॥८३७॥

सं꣡वृ꣢꣯क्तधृष्णुम् । सं꣡वृ꣢꣯क्त । धृ꣣ष्णुम् । उक्थ्य꣢म् । म꣣हा꣡म꣢हिव्रतम् । म꣣हा꣢ । म꣣हिव्रतम् । म꣡द꣢꣯म् । श꣣त꣢म् । पु꣡रः꣢꣯ । रु꣣रु꣡क्षि꣢णम् ॥८३७॥

Mantra without Swara
संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् । शतं पुरो रुरुक्षणिम् ॥

संवृक्तधृष्णुम् । संवृक्त । धृष्णुम् । उक्थ्यम् । महामहिव्रतम् । महा । महिव्रतम् । मदम् । शतम् । पुरः । रुरुक्षिणम् ॥८३७॥

Samveda - Mantra Number : 837
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(संवृक्तधृष्णुम्) संवृक्ताः संछिन्नाः धृष्णवो धर्षणशीलाः कामक्रोधाद्या आन्तरा बाह्या वा रिपवो येन तम्, (उक्थ्यम्) प्रशंसार्हम्, (महामहिव्रतम्) अतिशयपूजनीयकर्माणम्, (मदम्) आनन्दजनकम्, (शतं पुरः) शतसंख्यकाः शत्रुनगरीः (रुरुक्षणिम्) भङ्क्तुं कृतसंकल्पम्।[रुजो भङ्गे सन्नन्तः। बाहुलकाद् औणादिकः अनिप्रत्ययः। आङि शुषेः सनश्छन्दसि उ० २।१०५ आशुशुक्षणिः इति वत्।] पवमानं पवित्रकर्तारं सोमं जगदीश्वरं राजानं वा वयम् (ईमहे) प्राप्नुमः। [अत्र ‘ईमहे’ इति पूर्वमन्त्रादाकृष्यते] ॥२॥
Essence
यथा जगदीश्वर आन्तरान् सपत्नान् हिनस्ति, प्रशंसनीयानि कर्माणि करोति, स्वोपासकानानन्दयति च तथैव राजा सर्वान् विघ्नकरान् शत्रूनुच्छिद्य राज्योन्नतिकराणि कर्माणि कृत्वा प्रजा आनन्दयेत् ॥२॥
Subject
अथ परमात्मानं राजानं च विशिनष्टि।
Footnote
१. ऋ० ९।४८।२।