Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 836

1875 Mantra
Devata- पवमानः सोमः Rishi- कविर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
तं꣡ त्वा꣢ नृ꣣म्णा꣢नि꣣ बि꣡भ्र꣢तꣳ स꣣ध꣡स्थे꣢षु म꣣हो꣢ दि꣣वः꣢ । चा꣡रु꣢ꣳ सुकृ꣣त्य꣡ये꣢महे ॥८३६॥

त꣢म् । त्वा꣣ । नृम्णा꣡नि꣢ । बि꣡भ्र꣢꣯तम् । स꣣ध꣡स्थे꣢षु । स꣣ध꣡ । स्थे꣣षु । महः꣢ । दि꣣वः꣢ । चा꣡रु꣢꣯म् । सु꣣कृत्य꣡या꣢ । सु꣣ । कृत्य꣡या꣢ । ई꣣महे ॥८३६॥

Mantra without Swara
तं त्वा नृम्णानि बिभ्रतꣳ सधस्थेषु महो दिवः । चारुꣳ सुकृत्ययेमहे ॥

तम् । त्वा । नृम्णानि । बिभ्रतम् । सधस्थेषु । सध । स्थेषु । महः । दिवः । चारुम् । सुकृत्यया । सु । कृत्यया । ईमहे ॥८३६॥

Samveda - Mantra Number : 836
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम जगत्स्रष्टः परमात्मन् ! (महः दिवः) महतः आकाशस्य (सधस्थेषु) लोकेषु सूर्यग्रहनक्षत्रचन्द्रादिषु, यद्वा (महः दिवः) महतः प्रकाशमयस्य जीवात्मनः (लोकेषु) मनोबुद्धिप्राणेन्द्रियादिषु (नृम्णानि) धनानि बलानि च। [नृम्णमिति धननाम बलनाम च। निघं० २।६, २।१०। नृम्णं च बलं नॄन् नतम्। निरु० ११।७।५] (बिभ्रतम्) धारयन्तम् (चारुम्) रमणीयं (तं त्वा) तं सुप्रसिद्धं त्वां, वयम् (सुकृत्यया) पुण्यकर्मणा (ईमहे) प्राप्नुमः ॥१॥
Essence
भूगोले खगोले देहे च सर्वत्र धनबलयोरुत्पादकः परमेश्वरः शुभैरेव कर्मभिः प्राप्तुं शक्यते, नाशुभैः ॥१॥
Subject
अथ परमात्मानं कामयते।
Footnote
१. ऋ० ९।४८।१।