Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 835

1875 Mantra
Devata- पवमानः सोमः Rishi- भृगुर्वारुणिर्जमदग्निर्भार्गवो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣡ न꣢ इन्दो शात꣣ग्वि꣢नं꣣ ग꣢वां꣣ पो꣢ष꣣ꣳ स्व꣡श्व्य꣢म् । व꣢हा꣣ भ꣡ग꣢त्तिमू꣣त꣡ये꣢ ॥८३५॥

आ꣡ । नः꣣ । इन्दो । शतग्वि꣡न꣢म् । श꣣त । ग्वि꣡न꣢꣯म् । ग꣡वा꣢꣯म् । पो꣡ष꣢꣯म् । स्व꣡श्व्य꣢꣯म् । सु꣣ । अ꣡श्व्य꣢꣯म् । व꣡ह꣢꣯ । भ꣡ग꣢꣯त्तिम् । ऊ꣣त꣡ये꣢ ॥८३५॥

Mantra without Swara
आ न इन्दो शातग्विनं गवां पोषꣳ स्वश्व्यम् । वहा भगत्तिमूतये ॥

आ । नः । इन्दो । शतग्विनम् । शत । ग्विनम् । गवाम् । पोषम् । स्वश्व्यम् । सु । अश्व्यम् । वह । भगत्तिम् । ऊतये ॥८३५॥

Samveda - Mantra Number : 835
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) तेजस्विन् धनाधीश परमात्मन् ! (ऊतये) रक्षायै (नः) अस्मभ्यम् (शातग्विनम्) बहून् प्रति गमनशीलम्। [शतानि गच्छतीति शतग्वी तम्। संहितायाम् ‘शात’ इत्यत्र दीर्घश्छान्दसः।] (गवाम्) धेनूनां वाचां वा (पोषम्) पोषणम्, (स्वश्व्यम्) शोभनानाम् अश्वानां प्राणबलानां वा समूहम्, किञ्च (भगत्तिम्) भगदत्तिम्, ऐश्वर्यदानम् (आ वह) प्रापय ॥३॥
Essence
परमात्मोपासनया पुरुषार्थाय प्रेरणां प्राप्य सर्वं भौतिकमाध्यात्मिकं च वैभवं प्राप्तुं सुशकम् ॥३॥
Subject
अथ पुनरपि परमात्मानं प्रार्थयते।
Footnote
१. ऋ० ९।६५।१७।