Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 833

1875 Mantra
Devata- पवमानः सोमः Rishi- भृगुर्वारुणिर्जमदग्निर्भार्गवो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
रा꣡जा꣢ मे꣣धा꣡भि꣢रीयते꣣ प꣡व꣢मानो म꣣ना꣡वधि꣢꣯ । अ꣣न्त꣡रि꣢क्षेण꣣ या꣡त꣢वे ॥८३३॥

रा꣡जा꣢꣯ । मे꣣धा꣡भिः꣢ । ई꣣यते । प꣡व꣢꣯मानः । म꣡नौ꣢ । अ꣡धि꣢꣯ । अ꣣न्त꣡रि꣢क्षेण । या꣡त꣢꣯वे ॥८३३॥

Mantra without Swara
राजा मेधाभिरीयते पवमानो मनावधि । अन्तरिक्षेण यातवे ॥

राजा । मेधाभिः । ईयते । पवमानः । मनौ । अधि । अन्तरिक्षेण । यातवे ॥८३३॥

Samveda - Mantra Number : 833
(Kauthum) उत्तरार्चिकः: » Prapathak » 2; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 4; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमेश्वरपरः। (राजा) विश्वब्रह्माण्डस्य सम्राट्, (पवमानः) पवित्रतादायकः सोमः परमेश्वरः (मनौ अधि) मननशीलस्य उपासकस्य अन्तःकरणे (मेधाभिः) धारणावतीभिः बुद्धिभिः सह (ईयते) गच्छति। [ईङ् गतौ दिवादिः।] स एव मङ्गलबुधबृहस्पतिपृथिवीचन्द्रादीन् ग्रहोपग्रहान् पक्ष्यादींश्च (अन्तरिक्षेण) आकाशमार्गेण (यातवे) यातुम् समर्थान् करोति। [या प्रापणे धातोः ‘तुमर्थे०’ अ–० ३।४।९ इत्यनेन तुमर्थे तवेन् प्रत्ययः।] ॥ द्वितीयः—नृपतिपरः। (राजा) राष्ट्रस्य नृपतिः (पवमानः) राष्ट्रवासिनामाचरणेषु पवित्रतां जनयन् (मनौ अधि) विदुषः प्रजावर्गस्य मध्ये (मेधाभिः) शिल्पिनां बुद्धिकोशलैः (अन्तरिक्षेण यातवे) विमानद्वारा आकाशमार्गेण गन्तुम् (ईयते) समर्थो भवति ॥ तृतीयः—योगिपरः। (राजा) योगिराट् (पवमानः) स्वान्तःकरणं व्यवहारं च पवित्रं कुर्वन् (अन्तरिक्षेण यातवे) आकाशमार्गेण गन्तुम्, आकाशगमनसिद्धिं प्राप्तुमित्यर्थः (मेधाभिः) ध्यानैः (मनौ अधि) मननशीले स्वान्तरात्मनि सर्वज्ञे परमात्मनि वा (ईयते) गच्छति, स्वकीयं मनः स्वात्मनि परमात्मनि च केन्द्रितं करोतीत्याशयः ॥ चतुर्थः—चन्द्रपरः। (राजा) राजमानः सोमः चन्द्रमाः (पवमानः) स्वज्योत्स्नया भूमण्डलं पावयन् (मनौ अधि) दीप्तिमतः सूर्यस्य अधिष्ठातृत्वे। [मन्यते दीप्तिकर्मा। निरु० १०।२९।] (मेधाभिः) आकर्षणद्वारा सूर्येण सह संगमैः। [मेधृ मेधाहिंसनयोः संगमे च भ्वादिः।] (अन्तरिक्षेण यातवे) आकाशमार्गेण यातुम् (ईयते) प्रवर्तते ॥१॥ अत्र श्लेषालङ्कारः ॥१॥
Essence
यथा पक्षिणो ग्रहोपग्रहाश्चाकाशे भ्रमन्ति, मनुष्याश्च विमानैराकाशयात्रां कुर्वन्ति, तथैव योगसिद्ध्या योगिनोऽप्याकाशे भ्रमितुं क्षमन्ते ॥१॥२
Subject
तत्र प्रथमा ऋक् परमेश्वरनृपतियोगिचन्द्रविषयमाह।
Footnote
१. ऋ० ९।६५।१६। २. द्रष्टव्यम्—“कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चाकाश- गमनम्।” इति पतञ्जलिः (योग० ३।४२)। “यदा मनुष्यः स्वात्मना सह परमात्मानं युङ्क्ते तदाणिमादयः सिद्धयः प्रादुर्भवन्ति, ततोऽव्याहतगत्याभीष्टानि स्थानानि गन्तुं शक्नोति नान्यथा” इति य० १७।६७ भाष्यस्य भावार्थे दयानन्दः। ३. द्रष्टव्यः योग ३।४२, य० १७।६७ दयानन्दभाष्य।